________________
पाद-४, सूत्र-३४-३५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः ।
[१७९
न्या० स०-तेस्रहा.-तन्तिरिति-'न तिकि दीर्घश्च' ४-२-५९ इति निषेधाल्लुगदीर्घाऽभावः । सन्तिरिति षण् यी इत्यस्य रूपं 'तौ सनस्तिकि' ४-२-६४ इति लुगाकारौ वा भवतः, दीर्घस्तु 'न तिकिः' ४-२-५९ इति निषेधान्न । षन भक्तावित्यस्य तु सान्तिरिति स्यात् , न वाच्यं तस्यापि 'न तिकि' ४-२-५९ इति निषेधस्तत्र तनादेरुपादानात् ।
गृहोऽपरोक्षायां दीर्घः ॥ ४. ४. ३४ ॥
गृहातेर्यो विहित इट् तस्य दीर्घो भवति 'अपरोक्षायाम' न चेत् स इट् परोक्षायां भवति । ग्रहीता, ग्रहीतुम् , ग्रहीषीष्ट, ग्रहीष्यति, अग्रहीष्यत् , अग्रहीत् । दीर्घस्य स्थानिवभावादिट ईतीति सिचो लुग्भवति । न चायं वर्णविधिः । इट इति रूपाश्रयत्वात् । अग्रहीध्वम् , अग्रहीत्वम् ।
. विहितविशेषणं किम् ? यङन्ताद्विहितस्य माभूत् । जरीगृहिता, जरीगृहितुम् , जरीगृहितव्यम् । लुप्ततिनिर्देशाधलुपि न भवति । जरीगहिता, जरीगहितुम , जरीगहितव्यम् । अपरोक्षायामिति किम् ? जगहिव, जगहिम । इट इत्येव ? ग्राहिषीष्ट, अग्राहिषाताम् , ग्राहिता, निटो माभूव ।।३४।।
न्या० स०-गृह्णोप०-जरीगृहितेति-'योऽशिति' ४-३-८० इति यलोपे गृह्णाते: पर इट् अस्त्येव, अतो विहितव्याख्यानम् ।
वृतो नवानाशीः सिच्परस्मै च ॥ ४. ४. ३५ ॥
वगवद्भ्यामकारान्तेभ्यश्च धातुभ्यः परस्य इटो वा दीर्घो भवति परोक्षायामाशिषि परस्मैपदविषये सिचि च न भवति । वृग,-प्रावरीता, प्रावरिता, प्राविवरीषति, प्राविवरिषति । वृङ्,-वरीता, वरिता, विवरीषते, विवरिषते, ऋदन्त,-तरीता, तरिता, तितरोषति, तितरिषति, जरीता, जरिता, जिजरीषति, जिजरिषति, वृत इति किम् ? करिष्यति, तकारो वर्णनिर्देशार्थः । अन्यथा समरीता समरितेति ऋणातेरेव विज्ञायेत ।
परोक्षादिवर्जनं किम् ? विवरिथ, तेरिथ, प्रावरिषीष्ट, आस्तारिषीष्ट । प्रावारिष्टाम । प्रावारिषः । आस्तारिष्टाम । आस्तारिषुः । सिच: परस्मैपदविशेषणादात्मनेपदे दी? भवत्येव । प्रवरीष्ट, अवरिष्ट, प्रावरीष्ट, प्रावरिष्ट, आस्तरीष्ट, आस्तरिष्ट ।३५॥
न्या० स०-वृतो न-सिचपरम्मै चेति-सिचः परस्मैपदमिति षष्ठीसमास:, यस्मिन् परस्मैपदे सिचः विधीयते तत् सिच: परस्मैपदं । विशेषणसमासो वा सिच् च तत्परस्मैपदं चेति, परस्मैपदनिमित्तत्वेनोपचारात् सिजपि परस्मैपदेनोच्यते । तकारो वर्णनिर्देशार्थ इतितकारोऽभावे ऋ इति निद्दिश्यमाने व इत्यनेन धातुना साहचर्यात् ऋश् गतावित्यस्यैव ग्रहणं स्यात् , न ऋकारान्तधातुमात्रपरिग्रहस्ततश्च समरीता समरितेत्यत्रैव स्यात् , तकारे तु सति ऋदित्यस्य धातोरऽभावात्तकारस्य च वर्णनिर्देशेषु प्रसिद्धत्वात् ऋकारवर्णविज्ञानात्तदन्तः घातुमात्रप्रतिपत्तिर्भवति इति तकारोपादानम् ।