________________
पाद-४, सूत्र-१८-२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१७५
परोक्षायां नवा ॥ ४. ४. १८ ॥ .
परोक्षायां परतोऽदेर्घस्लादेशो वा भवति । जघास, जक्षतुः, जक्षुः आद, पादतुः, आदुः । घस्यदिभ्यामेव सिद्धे विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् , तेन घस्ता घस्मर इत्यादावेव घसेः प्रयोगो भवति ।।१८।।
वेवय ।। ४. ४. ११ ॥
वेगो धातोः परोक्षायां वयित्ययमादेशो वा भवति । उवाय, ऊयतुः, ऊयु , ववौ, ववतुः, ववुः ॥१६॥ ..
न्या० स०-वेर्वय-ऊयुरिति-'न वयो य' ४-१-७३ इत्यनेन यस्य न बत् । ववाविति-'वेरयः' ४-१-७४ इति न । वरिति-'अविति वा' ४-१ ७५ इति न । वृविकल्पात् ।
ऋः शदपः॥ ४. ४. २०॥
शृदृप्रः इत्येतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा भवति । विशशार, विशश्रतुः, विदद्रतुः निपप्रतुः । क्वसौ-विशशवान् , विददृवान् , निपपृवान् । पक्षे-विशशार, . विशशरतुः विददरतुः, निपपरतुः, विशिशोर्वान् , विदिदीर्वान् , निपुपूर्वान् ॥२०॥
न्या० स०-ऋः श-विशशारेति -ऋकारेकृतेऽपि णवीदृशमेव रूपं भवतीति निर्णयार्थं णवि दथितम् ।
हनो वध आशिष्यत्रौ ॥ ४. ४. २१ ॥
परोक्षानिवृत्ती वेति निवृत्तम् , आशीविषये हन्तेर्वध इत्यकारान्तादेशो भवति 'अऔं' जिविषये तु न भवति ।
वध्याव , वध्यास्ताम् , वध्यासुः, आवधिषीष्ट, प्रावधिषीयास्ताम् , आवधिषीरन् । स्थानिवद्भावेनानुस्वारेत्त्वेऽपि अनेकस्वरत्वाविप्रतिषेधो न भवति । अत्राविति किम् ? घानिषीष्ट ॥२१॥
न्या० स०-हनो व०-आशीविषये इति-अत्र विषयविज्ञानात् पूर्वमेवादेशे वध्यादित्यादौ 'अतः' ४-३-८२ इत्यकारलोपः सिद्धः, अन्यथा तत्रापि विहितव्याख्यानात् स न स्यात् । आवधिषीष्टेत्यादौ चेट् सिद्धः, अन्यथा 'एकस्व गदनुस्वारेतः' ४-४-५६ इत्यत्र विहितव्याख्यानात् तेन निषेधः स्यात् ।
अद्यतन्यां वा त्वात्मने ॥ ४. ४. २२ ॥
अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति आत्मनेपदे त्वस्या वा भवति । अवधीव , अवषिष्टाम् , अवषिषुः। अलोपस्य स्थानिवद्भावेन 'व्यञ्जनादेर्योपान्त्यस्यातः'