________________
१७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-१५-१७
हांड निवृत्त्यर्थ,-हात्वा । क्त्वीति किम् ? हीनः । तीत्येव ? प्रहाय । यङ्लुपि जहित्वा, द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । जाहित्वा । उभयत्रेटि आतो लक ।।१४।।
न्या० स०-हाको हिः क्त्वि-इ इत्येव सिद्धे हिकरणमुत्तरार्थ, इकरणे ह्य त्तरत्र धित इति स्यात् ।
धागः ॥ ४. ४. १५ ॥
दधातेस्तादौ किति प्रत्यये हिरादेशो भवति, क्त्वोति न संबध्यते पृथग्योगात् । विहितः,-विहितवान् , हित्वा, हितिः । गकारः धेनिवृत्त्यर्थः, धोतः, धोतवान् , धीत्वा, धोतिः । तीत्येव ? प्रधाय । यङ्लुपि इट-दाधित: दाधितवान् , दाधित्वा।
केचितु दोसोहाकधागां यङ्लप्यागमशासनमनित्यमिति न्यायादिटं नेच्छन्ति इत्वहित्वविधि च निषेधन्ति, तन्मते दत्तः, दत्तवान् । परमात्रस्यैव दद्भाव इति मते निदत्तः, निदत्तवान् , अवसासीतः, अवसासोतवान् , जाहातः, जाहातवान् , दाधीतः, दाधीतवान , इत्येव भवति ।।१५।।
न्या० स०-धागः-जाहात इति-'हाकः' ४-२-१०० इति अनुबन्धनिर्देशादऽत्र ईत्वं न ।
यपि चादो जग्ध ॥ ४.४. १६ ॥
तादौ कितिप्रत्यये यपि चावेर्जग्ध् इत्ययमादेशो भवति । जग्धः, जग्धवान , जग्ध्वा, जग्धिः, प्रजग्ध्य, विजग्ध्य । यपि चेति किम् ? अदनम् । तीत्येव ? अद्यात् । कितीत्येव ? अत्तव्यम, कथमन्नम् ? अनितेरौणादिको नः,-'अदोऽनन्नाव' (५-१-१५०) इति ज्ञापकाद्वाद्यते तदित्यनम् , एकपदाश्रयत्वेनान्तरङ्गत्वाद्यवादेशात्प्रागेव जग्धादेशे सिद्धे यग्रहणमन्तरङ्गानपि विधीन यवादेशो वाधते इति ज्ञापनार्थम् , तेन प्रशम्य, प्रपृच्छय. प्रदीव्य, प्रखन्य, प्रस्थाय, प्रपाय, प्रदाय, प्रधाय, प्रपठय त्यादौ दीर्घत्वं शत्वमूत्वमात्वमित्वमीत्वं हित्वमिट्त्वं यपा बाध्यते ॥१६॥
न्या० स०-यपि चा-न्यायानां क्वचिदप्रवृत्तेः प्रपठ्येति दर्शितं अन्यथा आगमा यद्गुणीभूता इति न्यायादिटा सहैवादेशः स्यात् ।
घस्लु सनद्यतनीघबचलि ॥ ४. ४. १७ ॥
एषु प्रत्ययेष्वदेघस्लु इत्ययमादेशो भवति । सन् ,-जिघत्सति, अद्यतनी,-अघसत , घन ,-घासः, अच् ,-प्रात्तीति प्रघसः, अल् ,-प्रादनं प्रघसः, घस्लु अदने इत्यनेनैव सिद्धेऽदेः सन्नादिषु रूपान्तरनिवृत्त्यथं वचनम् , लुदङर्थः ॥ १७ ॥
न्या० स०-घस्लु स-प्रघस इति-अजन्तस्य अदेः प्रपूर्वस्यैव घसादेशं वदन्ति वृद्धास्तेन माघमध्ये अदद इति प्रयोगः सिद्धः, अदन्तीत्यदाः, अच् , अदान भक्षकान् द्यति 'आतो ङः' ५-१-७६ इति डे अददो विष्णुः ।