________________
१५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-६७ ७०
धेघाशाछासो वा ।। ४. ३. ६७ ॥ एभ्यः परस्य सिचः परस्मैपदे वा लुप् भवति, लुप्संनियोगे चैतेभ्य इट् न भवति ।
धे-अधात , अधासीत , घ्रां-अघ्रात अघ्रासोत , शों- अशात , अशासीत , छोंअच्छात् , अच्छासीत् , सों में वा-आसात् , प्रसासीत् । परस्मौ इत्येव,-अधिषातां स्तनो वत्सेन, ट्धः पूर्वेण नित्यं प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।।६७।।
___ न्या० स०-धे घ्राशा०-छाशोः सोर्मध्ये पाठाभावान्न साहचर्य, तेन न देवादिकस्यैव ।
तन्भ्यो वा तथासि न्णोश्च ।। ४. ३. ६८॥
तनादेर्गणास्परस्य सिचस्ते थासि च प्रत्यये परे लुब्या भवति, तत्संनियोगे च नकारस्य णकारस्य च लुब् भवति न चेट ।
प्रतत, प्रतनिष्ट. अतथाः, अतनिष्ठाः, असत, असनिष्ट, असथाः, प्रसनिष्ठाः, अक्षत, अक्षणिष्ट, अक्षयाः, अक्षणिष्ठाः, आर्त, आणिष्ट, प्रार्थाः, प्राणिष्ठाः, अतृत, अतणिष्ट, अतथाः, अणिष्ठाः, अघृत, अर्घाणष्ट, अघृथाः, अणिष्ठाः, अवत अवनिष्ट, प्रवथाः, अवनिष्ठाः, अमत, अमनिष्ट, अमथा:, अमनिष्ठाः । इह परस्मै इति निवृत्तम थासग्रहणात थाससाहचर्यात्तप्रत्ययोऽप्यात्मनेपदसंबन्ध्येव गाते तेनेह न भवति । अतनिष्ट यूयम् ॥६८।।
न्या० स० तन्भ्यो वा०-णोश्चेति- केचित् क्षणगादीन् णोपदेशान्मन्यन्ते, तन्मतसंग्रहार्थं णकारकरणं. स्वमते तु लाक्षणिकत्वात् णकारस्य नग्रहणेनापि सिद्धम् । प्रततेति'न वृद्धिश्चाविति' ४-३-११ इति निषेधान्न गुणः, यद् वा सिच्प्रत्ययेनाद्यतन्युपलक्षणात् 'सिज्लोपे ऋवर्णात्' ४-३-३६ इति अद्यतन्याः कित्त्वं, 'लुप्यय्वृल्लेनत्' ७-४-११२ इत्यत्र नत्र निर्दिष्टस्यानित्यत्वाद् वा सिचः स्थानित्वे तस्यैव कित्त्वं सिजाशिषाविति ।
सनस्तत्रावा॥ ४. ३.६१ ॥
सनोतेस्तत्र लपि सत्यामन्तस्य वा आकारो भवति । असात. असत. प्रसाथा: असथाः । तत्रेति किम् ? असनिष्ट, असनिष्ठाः, केचिदात्वं न मन्यन्ते, नित्यमेवान्ये ।। ६६॥
धुडहस्वाल्लुगनिटस्तथोः ।। ४. ३.७० ॥
धुडन्तावहस्वान्ताच्च धातोः परस्यानिटस्सिचस्तकारादो थकारादौ च प्रत्यये लुग भवति । अभत्ताम् , अमेत्तम् , अभेत्त, अभित्त, अभित्थाः, वस्-अवात्ताम् , अवात्तम् , अवात्त, ह्रस्व-प्रकृत, अकृथाः, समस्थित, समस्थिथाः, प्राहत, प्राहथाः।
धुड्हस्वादिति किम् ? अमंस्त, प्रमंस्थाः, अच्योष्ट, अच्योष्ठाः, लुकः परत्वेऽपि नित्यत्वात्प्रागेव गुणः । तथोरिति किम ? अभिसाताम, अमित्सत, अकृषाताम, अकृषत । अनिट इति किम् ? व्यद्योतिष्ट, व्यद्योतिष्ठाः । ह्रस्वान्ताद्धातोरिति किम् ? प्रास्नाविष्ट गौः स्वयमेव अलाविष्टाम् , अलविष्ट । मेरिटश्न परस्य लोपो माभूत् , लुबधिकारे लुग्ग्रहणं