________________
पाद - ३, सूत्र - ६५-६६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १५७
भवतीत्याहुः । तु, तेवीति, तौति, उत्सवीति, उत्तौति, रुक् - रवीति, रौति, उपरवीति, उपरौति, ष्ट गक्, स्वीति स्तौति उपस्तवीति, उपस्तौति । तुरुस्तुभ्य ईतं छान्दसमाहुरेके ।
व्यञ्जनादावित्येव - बोभवानि, अबोभवम्, लालपानि, तथानि, रवाणि स्तवानि । वितीत्येव - बोभूतः, लालप्तः तुतः, रुतः स्तुतः । श्रद्वेरित्यनुवृत्तेः तुतोथ तुष्टोथेत्यत्र न भवति, यङिति सामान्याभिधानेऽपि यङ लुबन्तस्य ग्रहणम्, यङन्तस्यात्मनेपदित्वाद्वितो
व्यञ्जनादेरसंभवात् ।। ६४ । ।
सः सिजस्तेर्दिस्योः ।। ४. ३. ६५ ।।
सिच्प्रत्ययान्ताद्धातोरस्तेश्च सः सकारान्तात्परः परादिशेत् भवति, दिस्योः परयोः । अकार्षीत्, प्रकार्षीः, अलावीत्, अलावी:, प्रासीत्, आसीः । स इति किम् ? प्रदात् अभूव । दिस्योरिति किम् ? प्रस्ति, प्रति ।। ६५ ।।
न्या स० सः सिजस्तै ० - आसीदिति ह्यस्तनी दिव् सिव् विधानसामर्थ्याच्च 'व्यञ्जनाद्दे:' ४-३ - ७८ इति ईत् देर्न लुप् ।
-
प्रासीरिति - आदेशादागम इति न्यायेन सकारलोपात्प्रागेव ईकारागमप्राप्तिः, अस्तेः सि हस्त्वेति ४-३ - ७३ इति तु सूत्रमवित्प्रत्यये व्यतिसे इत्यादौ चरितार्थं तेनात्र दिव्साहचर्यात् सिव् ह्यस्तन्या पवेति ।
पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट् । ४. ३. ६६ ॥
1
एम्य: परस्य सिचः परस्मैपदे परे लुग्भवति 'न चेट्' लुप्संनियोगे चैतेभ्य इट् न भवति । पिय, अपात् एतीति इणिकोर्ग्रहणम् । अगात् श्रध्यगात् दासंज्ञ, अदात्, अधात् । भू इति भवते रस्त्यादेशस्य च ग्रहणम्-प्रभूत्, स्या- प्रस्थात्, सिज्लोपः परत्वादीतं बाधते । पिबेति किम् ? पातिपायत्योः अपासीत् वनं वा वस्त्रम् वा ।
"
दासंज्ञ इति किम् ? अदासीत् केदारम् भोजनं वा । परस्मै इति किम् ? अपासत पयांसि चैत्रेण । व्यत्यभविष्ट, उपास्थिषत । लुकमकृत्वा लुम्विधानं स्थानिवद्भावाभावार्थम् तेनाबोमोदित्यत्र न वृद्धिः ॥ ६६ ॥
-
न्या० स०- - पिबैति०-न चेडिति नन्विटा सहितस्य सिचो लोपे पेचुष इत्यादी उषादेशवत् सिध्यति किमिवर्जनेन, न वाच्यमिटः प्रागेव लोपविधेर्बलीयस्त्वात् सिच्लोपो भविष्यति आदेशादागम इति न्यायात् ? सत्यं यावत्संभव इति न्यायात् पश्चादपीट् स्यात् न च पेचुष इत्यादावपि तथा स्यादिति वाच्यं यतस्तत्रोषादेशे कृते व्यञ्जनादित्वाभावः । अथ 'घसेकस्वरः ' ४-४-८ इत्यत्र क्वसोरित्युक्त' न व्यञ्जनादेरिति चेत् ? न स्त्रसृभृवृ' ४-४-८१ इत्यनेन सिद्धे तस्य नियमार्थत्वात्, अथ स्थानित्वे व्यञ्जनादित्वं न वर्णव त्वात् । व्यञ्जनं हि वर्ण इति । यङलुप्यपि अपापात्, अदादात्, अबोभोत्, अतास्थात्सर्वेषु इट्प्रतिषेधः ।
इणिको ग्रहणमिति -- इङस्तु आत्मनेपदित्वान्निरासः, इंदु इत्यस्य त्वध्यतीति रूपम् ।