________________
पाद-३, सूत्र-३२-३६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १४६
पादानादिति, यतस्तेषां 'वौ व्यञ्जनादेः' ४-३-२५ इति विकल्पे प्राप्तेऽनेन प्रतिषेधे चरितार्थमुपादानम् ।
रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन्च ॥ ४. ३. ३२ ॥ सेडिति निवृत्तम् , एभ्यः परः सन् क्त्वा च किवद्भवतः।
रुदित्वा, रुरुदिषति, विदित्वा. विविदिषति, मुषित्वा, मुमुषिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृष्ट्वा, पिपच्छिषति, रुदविदमुषो 'वौ व्यञ्जनादेः सन् चाऽस्तः' (४-३-२५) इति विकल्पे आहेस्तु क्त्वा' (४-३-२६) इति प्रतिषेधे प्राप्ते वचनम् । स्वपिप्रच्छयोः सन्नर्थमेव, क्त्वा हि किदेव ।। ३२ ।।
- न्या० स०-रुदविद०-विदेति 'विदक ज्ञाने' इत्यस्य ग्रहणं नान्येषां तेषां हि निषेधाभावात् किद्वदेव क्त्वा, न वाच्यं 'वौ व्यञ्जनादे:' ४-३-३५ इति विक्ल्पः, तत्र सेटीति विशेषणात् । निवृत्तमिति-स्वपप्रच्छोरिटोऽसंभवात् ।
नामिनोऽनिट ।। ४. ३. ३३ ॥
नाम्यन्ताद्धातोरनिट सन् किवद्भवति । चिचीषति, तुष्टषति, लुलपति, चिकीर्षति, तितीर्षति । नामिन इति किम् ? पिपासति, तिष्ठासति । अनिडिति किम? शिशयिषते । सनित्येव? चेता, नेता ।। ३३ ।।
उपान्त्ये ॥ ४. ३.३४ ॥
नामिन्युपान्त्ये सति धातोरनिट् सन् किवद्भवति । बिभित्सते, बुभुत्सते, विवृत्सति, धिप्सति । अनिडित्येव,-विवतिषते, विधिषते। नामिन इत्येव,-यियक्षति, विवत्सति । सनित्येव,-भेत्ता ।। ३४ ॥
सिजाशिषावात्मने ॥ ४. ३. ३५ ॥ - नामिन्युपान्त्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषौ किवद्भवतः ।
अभित्त, अबुद्ध, असृष्ट, भित्सीष्ट, भुत्सीष्ट, सूक्षीष्ट । सिजाशिषाविति किम् ? भेत्स्यते, भोत्स्यते । आत्मने इति किम् ? अनाक्षीद , अद्राक्षीत् । नामिन इत्येव -अयष्ट, यक्षीष्ट । उपान्त्य इत्येव,-अचेष्ट, चेषीष्ट । अनिडित्येव,-प्रधिष्ट वधिषीष्ट ।। ३५॥
न्या० स० सिजाशिषा-अचेष्ट इति-सिचो लुकः परत्वेऽपि नित्यत्वात् प्रागेव गुणः, एतच्च 'धुट् ह्रस्व' ४-३-७० इत्यत्र कथयिष्यति ।
वर्णात् ॥ ४. ३. ३६ ॥
ऋवर्णान्ताद्धातोः परे अनिटावात्मनेपदविषये सिजाशिषौ किवद्भवतः। अकृत, अहृत, कृपोष्ट, हपोष्ट, अतीष्ट, अपूष्ट, तीर्घाट, पूर्षीष्ट । अनिटावित्येव -प्रवरिष्ट, वरिषोष्ट, अतरिष्ट, तरिषीष्ट ॥ ३६॥।
न्या० स० ऋवर्णाव-अतीष्ट इति-अस्मात् कर्मकर्तरि 'एकधातौ' २-४-८६