________________
पाद-२, सूत्र-१०२-१०६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१३५
यि लुक् ॥ ४. २. १०२॥
यकारादौ शिति प्रत्यये परे जहातेरन्तस्य लुग्भवति । जह्यात् , जह्याताम् , जा । शितीत्येव,-जेहीयते, हेयात् । वेति निवृत्तम् ।।१०२ ॥
न्या० स०-यि लुक्-लुञ्चनं 'क्रुत्संपदा' ५-३-११४ इति क्विपि स्त्र्युक्त इति स्त्रीत्वम् । लवनं 'द्रागादयः' ८७० (उणादि) इति लुक् पुंस्त्वं , एवं लुम्पनं 'क्रुत्संपदा' ५-३-११४ इति क्विपि स्त्रीत्वम् । 'गृपूदुर्वी' ६४३ (उणादि) इति क्विपि पुस्त्वम् ।
वेति निवृत्तमिति- इकाराधिकारे वाधिकृतः, इह लुग्विधीयते, अतो निवृत्तः । ओतः श्ये ॥ ४. २. १०३ ॥
धातोरोकारस्य श्ये परे लुग्भवति । दो-अवधति, सो-अवस्यति, शो-निश्यति, . छो-प्रवच्छयति । श्य इति किम् ? गौरिवाचरति गवति ।।१०३।।
जा ज्ञाजनोऽत्यादौ ॥ ४. २. १०४॥
ज्ञा जन इत्येतयोः शिति प्रत्यये परे जा इत्ययमादेशो भवति 'अत्यादौ' तिवादिश्चेदनन्तरो न भवति । जानाति, जानीते, जानन् , जानानः, जन-जायते, जायमानः । शितीत्येव,-ज्ञायते, जन्यते । अत्यादाविति किम् ? जाज्ञाति, जञ्जन्ति ।।१०४॥
न्या० स०-जाज्ञाजनो०-जाज्ञातीति-यङलुपि रूपं, शतरि तु ज्ञाजनोईयोरपि जत् इति । कया युक्त्या यङलुपि जाज्ञातीति जञ्जन्तीति वाक्ये शतरि 'जाज्ञा' ४-२-१०४ इति जादेशे 'श्नचातः' ४-२-९६ इत्याल्लुपि, अत्यथं जानन् अत्यथं जायमान इत्यर्थः ।
प्वादेह स्वः॥ ४. २. १०५॥
प्वादेर्गणस्य शिति प्रत्यये परे ह्रस्वो भवति, अत्यादौ । पुनाति, लुनाति, धुनाति । क्रयादिषु 'पूग्श् पवने' इत्यारभ्यः वृत्करणपर्यन्ताः प्वादयः । प्वादेरिति किम् ? वीणाति, भ्रोणाति । आ गणान्तात् प्वादय इत्यन्ये, वृत्करणं ल्वादिपरिसमाप्त्यर्थम्-तन्मते विणाति, भ्रिणाति इत्येव भवति । जानातीत्यत्र तु विधानसामर्थ्यान्न ह्रस्वः ।।१०५।।
गमि-पद्यमश्वः ॥ ४. २. १०६ ॥
गम् इषत् यम् इत्येतेषां शिति प्रत्यये परे छकारादेशो भवति अत्यादौ । गच्छति, संगच्छते, इच्छति, व्यतीच्छन्ते, यच्छति, आयच्छते, इषदिति तकारनिर्देश इष्यतीष्णात्योनिवृत्त्यर्थः ।
शितीत्येव-गन्ता, एष्टा, यन्ता । अत्यादावित्येव,-जंगन्ति, यंयन्ति । १०६॥
न्या० स०-गमिष०-गन्तेत्यादिषु सर्वेषु तृच् , अन्यथा व्यङ्गविकलत्वं स्यात् यतो यथात्र न शित् तथा अत्यादिरपि नास्तीति । जंगन्तीति-तसि तु जंगतः यंयत इति, शतरि