SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३४ ] बृहद्वृत्ति लघुन्याससंवलिते [पाद-२, सूत्र-९८-१०१ एषां व्युक्तजक्षपञ्चतश्नाप्रत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारो भवति, दासंज्ञं वर्जयित्वा मिमीते, मिमीताम् , अमिमीत, दावदेवोर्यङ्लुपि दादीत: । दादीथः, लुनीतः लुनीहि, लुनीयात् । व्यञ्जने इति किम् ? मिमते, लुनन्ति । अद इति किम् ? दत्तः, धत्तः, दद्वः, दमः, दध्वः, दध्मः, दद्यात् , दध्यात् । अवितीत्येव,-जहाति, लुनाति । शितीत्येव,संजिहासते ॥९७।। इर्दरिद्रः॥ १. २. १८॥ दरिद्रतिय॑जनादौ शित्यविति प्रत्यये परे आकारम्येकारो भवति । दरिद्रितः, दरिद्रिथः, दरिद्रिथ, दरिद्रिवः, दरिद्रिमः, दरिद्रियात् । व्यञ्जन इत्येव,-दरिद्रति । शितीत्येव,-दिदरिद्रासति, अवितीत्येवं,-दरिद्राति ।।९८॥ भियो नवा ।। ४. २. ११ ॥ बिभेतेय॑जनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा भवति । बिभितः, बिभीतः, बिभिथः, बिमोथः, बिभियात् , बिभीयात् , यङ्लुपि,-बेभितः, बेभीतः । व्यञ्जन इत्येव,-बिभ्यति, बिभ्यतु । शितीत्येव,-विभीषति, बेमीयते । प्रवितीत्येव,-बिभेति, बिभेषि En हाकः ॥ ४. २. १००॥ जहातेयुक्तस्य व्यञ्जनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा भवति । जहितः, जहीतः, जहिथः, जहीथः, जहिवः, जहीवः, जहिमः, जहीमः । व्यञ्जन इत्येव,जहति, जहतु । शितीत्येव,-जिहासति, जेहीयेते । अवितीत्येव,-जहाति, जहासि । अनुबन्धनिर्देश ओहायङ्लुपोनिवृत्त्यर्थः । उज्जिहोते, संजिहोते, जहीतः। योगविभाग उत्तरार्थः ।। १०० ॥ न्या० स०-हाकः-व्युक्तस्येति-अत्र व्युक्ताधिकृति विना द्विवचनात् प्रागेव इवं स्यात् , यतो हल्निमित्तं ततश्च प्राक्तु स्वर इति नोदेति । आ च हो॥ ४. २. १०१॥ अवितीति निवृत्तम् , वितोऽसंभवात् , शितीति त्वनुवर्तते । व्युक्तस्य जहातेही परे आकार इकारश्च वा भवति । जहाहि, जहिहि, जहीहि ॥१०१॥ न्या० स०-आ च हो-हाक इति सूत्रे जहातिव्युक्तो गृह्यते, इह उत्तरत्र च स एवानुवर्त्यते । इकारश्चेति-चेत्यकृते तत्र कौण्डिन्यन्यायेन ईर्न स्यात् ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy