________________
१३२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-८६-६२
न्या० स० कृगोयि च-अव्यभिचारात् प्रत्यय इति नाधिचक्रे ।
उ: परो न संभवतीति-न चैतद् वाच्यं येन नाव्यवधानं यतः कुर्यादित्यादावव्यव. हितोऽस्ति ।
अतः शित्युत् ॥ ४. २. ८१ ॥ शित्यविति प्रत्यये य उकारः तन्निमितो यः कृगोऽकारस्तस्योकारो भवति ।
कुरुतः, कुर्वन्ति, कुरु, कुरुताम् , कुर्यात् , अकुरुताम् , कुर्वन्, कुर्वाणः । उविधानबलाद् गुणो न भवति-ओकार एवान्यथा विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात , कुर्यादित्यादावुकारलोपेऽपि भवति, अडागमस्य च न भवति-अकुरुत । शितीत्युकारस्य विशेषणं किम ? कुरुत इत्यादौ शिति व्यवहितेऽपि यथा स्यात् । अवितीत्येव,-करोति ॥८६॥
न्या० स०-प्रतः शि०-तन्निमित्त इति-एवं सति कुरु इत्यादी विभक्तिलोपेऽपि भवति । गुणो न भवतीति-उकारे निमित्ते 'लघोरुपान्त्यस्य' ४-३-४ इति प्राप्तः । व्यवहितेऽपीति-अन्यथा कुर्यादित्यादावेव स्यात् , न च 'स्वरस्य' ७-४-११० इति स्थानित्वे व्यवधायकत्वं वाच्यमस्या अनित्यत्वात् ।
श्नास्त्योलुक॥ ४.२.१०॥
श्नस्य प्रत्ययस्यास्तेश्च धातोः संबन्धिनोऽकारस्य शित्यविति प्रत्यये लुग्भवति । रुन्धः, रुन्धन्ति, रुन्ध्यात्, रुन्धन् , रुन्धानः, स्तः सन्ति, स्थः, स्य, स्वः, स्मः, स्यात, स्तात , स्ताम् , सन् ।
__ अवितीत्येव-रुणद्धि, अस्ति । अत इत्येव,-अन्त्यस्य मा भूत् । प्रास्ताम , प्रासन् । तिवनिर्देशः किम् ? अस्यते भूत् अस्यतः ॥१०॥
न्या०स०-श्नास्त्यो०-प्रन्त्यस्य मा भूदिति-अत इत्यधिकाराभावे षष्ठ्यान्त्यस्येति अस्तेः सस्य लुप् स्यात् , इनस्य तु प्रत्ययस्येति परिभाषया सर्वस्यापि स्यात् ।
वा द्विषातोऽनः पुम् ।। ४. २. ११ ॥
द्विष आकारान्ताच्च धातोः परस्य शितोऽवितोऽनः स्थाने वा पुसादेशो भवति । अद्विषुः, अद्विषन् , अयुः, अयान , अरुः, अरान् , अलुः, प्रलान् । अदधुरित्यत्र परत्वाग्नित्यमेव, पकारः 'पुस्पो' ( 6-३-३) इत्यत्र विशेषणार्थः ।।१।।
सिज्विदोऽभुवः ॥ ४. २. १२ ॥
सिचः प्रत्ययाद्विदश्च धातोः परस्थानः स्थाने पुसादेशो भवति, 'प्रभुवः' न चेद्भुवः परः सिज्भवति । प्रकाए:, अहाए, अगुः, अदुः, अधुः, अपुः, अस्थः, विद्-अविदुः । अविदन्नित्यपि कश्चित् । अभुव इति किम् ? प्रभूवन् ॥२॥