________________
पाद-२, सूत्र-८५-८८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १३१
यङलुप्संभवस्तदाप्यस्तीति व्यक्तिनिर्देशान्न भवति, यद्वा यदा हिप्रदानविवक्षा तदा बाहुलकान्न यङलुप् ।
___ जंघहीति-गत्यर्थेऽत्र यङ हिंसार्थे तु 'हनो घ्नी' ४-३-९९ इति स्यात् , ये तु * तिवा शवा * इति न्यायस्य सूत्रगणनिर्दिष्टेऽपि प्रवृत्तिमभ्युपगच्छन्ति 'यमिरमि' ४-२-५५ इति लुगभावं क्ङिति 'अहन्पञ्चम' ४-१-१०७ इति हन्तेर्दीर्घत्वं चेच्छन्ति, तेषां हि जंघांहि तन्मते केवलस्यैव हनेवर्जनं न यङलुबन्तस्य ।
अतः प्रत्यययाल्लुक॥ ४. २. ८५ ॥
धातोः परो योऽकारान्तः प्रत्ययस्तस्मात्परस्य हेलुग्भवति । दीव्य, पच, पठ, तुद, चोरय । प्रत इति किम् ? राघ्नुहि, प्राप्नुहि । प्रत्ययादिति किम् ? पयि वयि गतौ पापहि, वावहि ॥८॥
असंयोगादोः ॥ ४. २.८६॥
असयोगात्परो य उकारस्तदन्तात्प्रत्ययात्परस्य हेलुंग भवति । सुनु, चिनु, कुरु । प्रसंयोगादिति किम? अहि, अक्षणहि । असंयोगादित्योविशेषणादिहापि न भवतिआप्नुहि, राध्नुहि । प्रोरिति किम् ? कोणीहि । प्रत्ययादित्येव,-युहि, रुहि ।।८६।।।
न्या० स०-असंयो०-विशेषणादिति-यदि वा संयोगाद्य उकारान्तः प्रत्यय इति विशेषणं स्यातदाऽत्रापि भवेत् ।
वम्यविति वा ।। ४. २. ८७ ॥
प्रत्ययादिति ओरिति च पञ्चम्यन्तमपि व्यधिकरणषठचन्ततया विपरिणम्यते । प्रसंयोगात्परो य उकारस्तस्य प्रत्ययसंबन्धिनो लुग् वा भवति, धकारादौ मकारादौ चाविति प्रत्यये ।
___ सुन्वः, सुनुवः, सुन्मः, सुनुमः, सुन्वहे, सुनुवहे, सुन्महे, सुनुमहे, तन्वः, तनुवः, तन्मः, तनुमः, तन्वहे. तनुवहे, तन्महे, तनुमहे । वमोति किम् ? सुनुतः, तनुतः । प्रवितीति किम् ? सुनोमि, तनोमि । ओरित्येव,-कोणीवः, प्रोणीमः। प्रत्ययस्येत्येव,-युवः युमः। प्रसंयोगादित्येव,-तक्ष्णुवः, तक्ष्णुमः, अणुवः, अणुमः । संयोगादित्योविशेषणादिहापि न भवति । आप्नुवः, आप्नुमः ॥७॥
कृगो यि च ॥ ४, २.८८॥ ___ कृगः परस्याकारस्य यकारादौ वमि चाविति प्रत्यये लुग्भवति । कुर्यात , कुर्याताम्, कुर्युः, कुर्वः, कुर्मः कुर्वहे, कुर्महे । यि वेति किम ? तनु, कुरुतः । अवितीत्येव,-करोमि । कुर्मीत्यपि कश्चित्तदसंमतम् । कृ हिंसायामित्यस्मात्तु नकारव्यवधानात उः परो न संभवतीति न भवति । कृणुयाव , कृणुवः, कृणुमः ।।८।।