________________
पाद - २, सूत्र - ३५ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ ११७
एकोपसर्गस्यानुपसर्गस्थ च छदेर्घपरे णौ ह्रस्वो भवति । प्रच्छाद्यतेऽनेनेति प्रच्छदः, परिच्छदः, उपच्छदः, छाद्यतेऽनेनेति छदः सप्त छदा अस्य सप्तच्छदः, उरसश्छदः उरश्छदः, एवं दन्तच्छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः समुपामिच्छादः । घ इति किम् ? प्रच्छादनम्, तनुच्छादनम् ।। ३४ ।।
उपान्त्यस्यासमान-लोपिशास्वदितो ङे । ४. २. ३५ ॥
समानलोपिशासूक्ऋदनुबन्धवजितस्य धातोरुपान्त्यस्य ङपरे णौ ह्रस्वो भवति । अपीपचत्, अदीदपत्, अचीकरत्, अलीलवत् । श्रत्र नित्यमपि द्विर्वचनं बाधित्वा प्रागेव ह्रस्वो भवति श्रोणेॠ दित्करणज्ञापकात् । तद्धि मा भवानोणिणत् इत्यत्र ऋदित्वादुपास्यस्वत्वप्रतिषेधो यथा स्यादित्येवमर्थं क्रियते ।
यदि चात्र नित्यत्वात्पूर्वमेव द्वितीयद्वित्वं स्यात्तदानुपान्त्यत्वादेव ह्रस्वत्वस्याप्राप्तिरिति किं तन्निवृत्त्यर्थेन ऋदित्करणेन । एवं माभवानटिटत् मा भवानशिशत् इत्यादि सिद्धं भवति, ङपरे णौ इति च न धातुविशिष्यते कि तहि तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि ह्रस्वो भवति, तेन गोनावमाख्यत् अजूगुनत् ।
केचिदतः स्थानिवद्भावेनोपान्त्यत्वाभावाद् ह्रस्वं नेच्छन्ति तेनाजुगोनत् । गावित्येव, -ङ उपान्त्यस्यैतावत्युच्यमाने अलीलवदित्यादावन्तरङ्गावपि वृद्ध्यावादेशावदीदपदित्यादौ च वागमं च बाधित्वा वचनसामर्थ्यात् व्युपान्त्यस्य स्वरस्य ह्रस्वः प्रसज्ज्येत । अपीपचदित्यादौ प्युपान्त्यस्वराभावान स्यात् । णिग्रहणानुवृत्तौ तु ङपरे णावुपान्त्यस्य ह्रस्व इति सर्वत्र ह्रस्वः सिद्धो भवति ।
ङ इति किम् ? कारयति पाचयति । उपान्त्यस्येति किम् ? अचकाङ्क्षत्-येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणम् उत्तरार्थम् । श्रसमानलोपिशास्वृदित इति किम् ? राजानमतिक्रान्तवानत्यरराजत् । लोमान्यनुमृष्टवान् श्रन्वलुलोमत्, स्वामिनमाख्यत् असस्वामत्, तादृशमाख्यत् अततादत्, मातरमाख्यत् अममातत् यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशत्वात् स्थानिवद्भावेनैव सिध्यति । मालामाख्यत् अममालत्, मातरमाख्यत् अममातत्, अशशारत्, अशुशूरत् ।
ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रापि अवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेन ? सत्यम्, - स्थानिवद्भावस्य अनित्यत्वख्यापनार्थं वचनम् - तेन वास्या परिच्छिन्नवान् पर्यवीवसत्, स्वादु कृतवान् असिस्वददित्यादि सिद्धम् । अत्रेकारोकारयोः 'नामिनोऽक लिहले:' ( ४-३ - ५१ ) इति वृद्धौ कृतायामन्त्य - स्वरादिलोपादसमानलोपित्वम् ।
ननु च परत्वात् प्रथमं लोपेनैव भवितव्यम् ? नैवम्, कलिह लिवर्जनात् परमपि लोपं वृद्धिर्बाधते अत एव तत्र कलिहलिवर्जनमर्थवत् । शासू, अशशासत्, श्राशासोऽपीच्छत्यन्यः - आशशासत् । ऋदिति, ओणु मा भवानोणिणत्, ओखु-मा भवानोखिखत्, एज