________________
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-३१-३४
न्या० स०-मारणतोषण-चकारो णिचि चेत्यस्येति-धात्वाकर्षणे पूर्वेण सिद्धेः फलाऽभावात् प्रकृतेरपि स्थितः प्रत्ययमाकर्षति, स्वरूपव्याख्यानमिदं यावताऽधिकारायातमेव चकारेणानुमीयते, अन्यथा चानुकृष्टं नोत्तरत्रेति स्यात् । संज्ञपयतीति- आदेशादागम: * इति न्यायात् ह्रस्वात् प्रागेव प्वागमः । एकत्र स्वार्थ इति-स्वार्थे प्रथममेव मारणे वर्तते, अन्यत्र मरणे ततो मारणे इत्यर्थः ।
चहणः शाठ्ये नन्वदन्तस्य चहणः भौवादिकस्य च चहेः सर्वाण्यपि सेत्स्यन्ति किमनेन ? सत्यं, सूत्रं विना चाहिष्यते इति न सिध्यति, तथाहि-भौवादिकस्य स्वरान्तत्वाभावात 'स्वरग्रह' ३-४-६६ इति जिट नायाति, चौरादिकस्य त त्रिटि सत्यपि अदन्तत्वाद् वृद्धघऽभावे न सिध्यति, अथ णिगि सति भौवादिकस्य साध्यते, तर्हि प्रयोक्तृव्यापार आयातस्तस्मिन् सति अर्थभेदः स्यात् , अतः सूत्रं कार्यम् ।
चहणः शाठ्ये ॥ ४, २. ३१ ॥
चहेश्चौरादिकस्य शाठ्येऽर्थे वर्तमानस्य णिचि णो परे ह्रस्वो भवति त्रिणम्परे तु वा दीर्घः । चहयति, चाहिष्यते, पहिष्यते, चाहंचाहम्।
णित्करणाझौवादिकस्य न भवति । चाहयति, अचाहि, चाहंचाहम् । शाठय इति किम् ? अचहि, चहचहम् । चहयतीत्येतददन्तत्वात्सिद्धम् , वीर्घायं वचनम् ।। ३१ ।। ज्वल-बल-मल-ग्ला-स्ना-बनू-बम-नमोऽनुपसर्गस्य वा
॥४.२.३२॥ एषामनुपसर्गाणां गौ परे ह्रस्वो वा भवति । ज्वलयति, ज्वालयति, ह्वलयति, हालयति, लयति, ह्यालयति, ग्लपयति, ग्लापयति, स्नपयति, स्नापयति, वनयति, वानयति, वमयति, वामयति, नमयति, नामयति, अज्वालि, अज्वलि, ज्वालंज्वालम् , ज्वलंज्वलम् । इत्यादिषु दीर्घविकल्प: सिद्ध एव।
अनुपसर्गस्येति किम् ? प्रज्वलयति, प्रह्वलयति, प्रलयति, प्रग्लापयति. प्रस्नापयति, प्रवनयति, प्रवमयति, प्रणमयति ग्लास्नोरप्राप्ते शेषाणां तु प्राप्ते विभाषा ।। ३२ ।।
___ न्या० स०-ज्वलह्वल०-दीर्घविकल्पः सिद्ध एवेति अनेन वा ह्रस्वविधानात्तेन त्रिणम्परे इति नाऽनूद्यते ।
छदेरिस्मन्त्रटको ॥ ४. २. ३३ ॥
छदेरिस्मन्त्रविप्परे णौ ह्रस्वो भवति । इसि-छदिः, मनि-छद्म, त्रटि,-छत्त्रम् , छत्त्री । क्विपि-उपच्छत , धामच्छत् । डिति किम् ? त्रे माभूव । छात्रः ।। ३३ ।।
एकोपसर्गस्य च घे ॥ ४. २. ३४ ॥