________________
१०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-६४-६७
ऊधसि च पर्यायेण, यद्वा ऊधोग्रहणमेव ज्ञापयति, अन्धुशब्द: कैश्चिदेव ऊधसि कीर्त्यते अन्यथाऽन्धुनापि साध्यसिद्धिः ।
आङ एवेतीति-अत्राप्यनुपसर्गस्येत्यनुवर्तनीयं ततश्च आङ-पूर्वस्य प्यायः पी:, कथं भूतस्याङ: ? अनुपसर्गस्य, किमुक्त भवति ? केवलस्येत्यर्थ इत्यवधारणान्नियन्त्रणान्न तु * सिद्धे सत्यारम्भोनियमार्थः ॐ इति, यद्वा सर्वं वाक्यं सावधारणमिति न्यायादेवकारः । प्राप्याय्य इति-'कालाध्व' २-२-२३ इत्यनेन मासादेः कर्मत्वेऽन्तभूतण्यर्थत्वेन वा सकर्मकत्वे कर्मणि ध्यण् भावे तु क्लीबत्वं स्यात् ।
स्फायः स्फो वा ॥ ४. १.१४॥
स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा भवति । स्फीतः, स्फीतवान् , संस्फीतः, संस्फीतवान् , स्फातः, स्फातवान् । क्तयोरिति किम् ? स्फाति:-विकल्पं नेच्छत्यन्ये ।।१४।।
न्या० स०- स्फायः स्फी वा-स्फातिरिति - तत्कथं स्फीति ? उच्यते, स्फायते स्म क्तः स्फीत इवाचरति 'कर्तु: क्विप्' ३-४-२५ स्फीततीति 'स्वरेभ्य इ' १-३-३० ।
प्रसमः स्त्यः स्ती ॥ ४. १. १५ ॥
प्रसम् इत्येवंसमुदायपूर्वस्य स्त्यायतेः क्तयोः परतः स्ती इत्ययमादेशो भवति । प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः, संप्रस्त्यानवान् , स्त्यानः, संस्त्यानः । प्रसमो नेच्छन्त्यन्ये ॥१५॥
न्या० स०-प्रसमः-व्यावृत्तौ केवलात् प्रोपसर्गान्न दशितमुत्तरेण विधानात् । नेच्छन्त्यन्ये इति-ते हि ह्य तत्सूत्रं न कुर्वन्ति ।
प्रात्तश्च मो वा ॥ ४. १. १६ ॥
प्रात्केवलात्परस्य स्त्यायतेः क्तयोः परयोः स्ती इत्ययमादेशो भवति, क्तयोस्तकारस्य च वा मकारो भवति । प्रस्तीमः, प्रस्तीमवान् , प्रस्तीतः, प्रस्तीतवान् ।।९६॥
श्यः शीवमूर्तिस्पर्शे नश्वास्पर्शे ॥ ४. १. १७ ॥
द्रवस्य मूतिः काठिन्यं तस्मिन् स्पर्श च वर्तमानस्य श्यायतेः क्तयोः परतः शो इत्ययमादेशो भवति, तत्संनियोगे च क्तयोस्तकारस्यास्पर्श विषये नकारादेशो भवति । शीनं घृतम् , शीनवद् घृतम् , शीनं मेदः शीनवन्मेदः, द्रवावस्थायाः काठिन्यं गतमित्यर्थः । स्पर्शशीतं वर्तते, शीतो वायुः । गुरणमात्रे तद्वनि वार्थे स्पर्शविषयो भवति । द्रवमूतिस्पर्श इति किम् ? संश्यानो वृश्चिकः,-शीतेन संकुचित इत्यर्थः । 'व्यञ्जनान्तस्थातोऽख्याध्यः' (४.२७१ ) इति नत्वम् ।।९।।
न्या स० श्यः शी-द्रवमूत्तिश्च स्पर्शश्चेति कृते विरोधिनामिति व्यावृत्तेः सूत्रत्वात्स