________________
८४
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-३०-३४
न शस-दद-वादि-गुणिनः॥ ४. १. ३० ॥
शसिदद्योर्वकारादीनां गुणिनां च धातूनां स्वरस्यत्वं न भवति । विशशसतुः, विशशसिथ, दददे, दददाते, दददिरे, ववले, ववलाते, ववलिरे, ववणतुः, ववणिथ, विशशरतुः, विशशरिथ, बिभयिथ, लुलविथ ॥३०॥
हो दः॥ ४. १. ३१ ॥
दासंज्ञकस्य धातोही परेऽन्तस्यैकारादेशो भवति, न चायं द्विः । देहि, धेहि । न च द्विरिति वचनात्कृतमपि द्वित्वं निवर्तते, तेन यङ्लुप्यपि देहीति भवति । हाविति व्यक्तिनिर्देशादिह न भवति,-दत्तात् , धत्तात् ॥३१॥
न्या० स०-हौदः-यङ्लुप्यपीति-प्रत्यासत्तेायात् यस्मिन्नेव प्रत्यये द्वित्वमेत्वं च प्राप्त तस्मिन्नेव प्रत्यये, न च द्विरिति प्रवर्तते, अत्र च यङ निमित्तकं द्वित्वं कथं निवय॑ते ? उच्यते व्यक्त्या प्रवृत्तेः ।
देर्दिगिः परोक्षायाम् ।। ४. १. ३२ ॥
देङः परोक्षायां दिगिरित्ययमादेशो भवति, न चायं द्विः । दिग्ये, दिग्याते, दिग्यिरे, अवदिग्ये, अवदिग्याले, अवदिग्यिरे ।। ३२ ॥
डे पिब पीप्य ॥ ४. १. ३३ ॥
ण्यन्तस्य पिबतेर्डे परे पीप्य इत्ययमादेशो भवति न चायं द्विः। अपीप्यत , अपीप्यताम् , अपोप्यन् । पिबतिनिर्देशात्पातेन भवति,- अपीपलत् । लुप्ततिवनिर्देशाद्यङ्लुप्यपि न भवति, अपापयत् । ऊ इति किम् ? पाययति ।। ३३ ॥
न्या० स०- पिबः-लुप्ततित्निईशादिति-यतः सूत्रे पिबत्येकदेशः पिबऽनुचक्रे । श्रङे हिहनो हो घः पूर्वात् ।। ४. १. ३४ ॥
हिहन इत्येतयोर्धात्वोर्डवजिते प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हस्य घो भवति । प्रजिघाय, प्रजिघीपति, प्रजेघीयते। प्रजेघेति । हन ,-जिघांसति, जंघन्यते, जड़नीति । अङ इति किम् ? प्राजोहयत् । अङे द्विवचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिह न भवति, हननीयितुमिच्छति-जिहननीयिषति । उपर्यु दासात्तु रिणव्यवधाने भवति,प्रजिघायियिषति । पूर्वादिति वचनान्न च द्विरिति निवृत्तम् ॥३४॥
न्या० स०- अहिहनो-जंघन्यते इति-कुटिलं हन्ति 'गत्यर्थात्' ३-४-११ इति यङ, यदि हिंसार्थस्तदा 'हनो नोवंधे' ४-३-९९ इति स्यात् । प्रजिघाययिषतीति-प्रहिण्वन्तं प्रयुक्त णिग् वृद्धिः, प्रहाययितुमिच्छति सन् ।