________________
पाद-१, सूत्र-२६-२९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
न्या० स०-तुत्रप०-तेरतुरिति-प्राक्तु स्वरे ४-१-१ इति भणनात् पूर्ण द्वित्वे 'स्कृच्छतोकि' ४-३-८ इति गुणेऽस्य एत्वे न च द्विरिति वचनात् कृतमपि द्वित्वं निबर्तते, एवं जुधातोरपि ज्ञेयं, गुणरूपत्वात् 'न शस' ४-१-३० इति निषेधः स्यादित्याह-तरतेरित्यादि । बहुवचनमिति-अन्यथा निरनुबन्धग्रहण इत्यनेन त्रिफला इत्यस्य न स्यात् ।
ज-भ्रम-बम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा। ४.१.२६
एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं वा भवति, न चैते द्विर्भवन्ति । जेरतुः, जजरतुः, जेरिथ, जजरिथ, भ्रमतु, बभ्रमतुः, भ्रमिथ, बभ्रमिथ, वेमतु, ववमतुः, वेमिथ, अवमिथ । 'उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवोक्षिताः' । वमर्नेच्छन्त्यन्ये वेसतुः, तत्रसतुः, सिथ, तत्रसिथ फेणतुः, पफणतुः, फेणिथ, पफणिथ, स्येमतुः, सस्यमतुः, स्येमिथ, सस्यमिथ, स्वेनतुः, सस्वनतुः, स्वेनिथ, सस्वनिथ, रेजतुः, रराजतुः, रेजिथ, रराजिथ, भेजे, बभ्राजे, भ्रसे, बभ्रासे, म्लेसे, बम्लासे । अविदित्येव.-अहं जजर ॥२६॥
न्या० स०-जभ्रमवम०-राजसहचरितभ्राजेरेव ग्रहणमिति पारायणे निर्णीतम् । श्रन्थ-ग्रन्थो न्लुक् च ॥ ४. १. २७॥
अनयोः स्वरस्यावित्परोक्षासेट्थवोरेकारादेशो वा भवति, तत्संनियोगे च नकारस्य लुक् ,-न चैतौ द्विर्भवतः । श्रेथतुः, शश्रन्थतुः, श्रेथिथ, शश्रन्थिथ, प्रेथतुः, जग्रन्थतुः, प्रेथिथ, जग्रन्थिथ । अविदित्येव,-शश्रन्थ, जग्रन्थ ।। २७ ।।
न्या० स०-श्रन्थग्रन्थ-श्रथुङ ग्रथुङड् इत्यनयोर्लाक्षणिकत्वान्न भवति, प्रकृतिप्रत्ययोर्वचनभेदान्न यथासंख्यम्' ।
दम्भः ॥ ४. १. २८॥ - दम्भेरवित्परोक्षायां स्वरस्य एकारादेशो भवति,-तत्संनियोगे नकारस्य लुक , न चायं द्विर्भवति । देमतुः, देभुः । प्रविदित्येव,-ददम्भ ॥२८॥
न्या० स० थेवा-वर्तमाना थप्रत्यये स्वादेः श्नुना व्यवधानात् प्राप्त्यभाव इति परोक्षाया एव थप्रत्यय ग्रहणम् ।
थे वा ॥ ४. १. २१ ॥
दम्भेः स्वरस्य थे परे एकारादेशो वा भवति, तत्संनियोगे च नकारस्य लुक , न चायं द्विर्भवति । देभिथ, ददम्मिथ ।।
__ अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेवमिच्छन्ति नलोपं त्वविति परोक्षायां नित्यमेव, तेन श्रेथतुः, ग्रंथतुः, देभतुः, नलोपाभावे तु शश्रन्थिथ, जग्रन्थिथ दवम्भिथेत्येव भवति । अन्यस्त्ववित्परोक्षासेटूथवोनित्यमेत्वमिच्छति नलोपं त्वविति परोक्षायामेव, तेन श्रेथतुः ग्रंथतुः वेभतुः नलोपाभावेऽपि श्रेन्थिथ, प्रेन्थिथ, देम्भिवेत्येवेच्छति ।२९।