________________
४८ ]
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० २. सू० २६-३०.]
नायाम् 'अव' इत्ययमादेशो भवति । गोरक्षीव अप्राण्यङ्गत्वात् समासान्तेऽति गवाक्षः-वातायनः । नाम्नीति किम् ? गवामक्षारिण गोऽक्षाणि, गोअक्षाणि । कश्चित् त्वसंज्ञायां गवाक्षाणीत्यपीच्छति ॥ २८ ॥
न्या० स०-गोर्नाम्नीत्यादि । नाम्नि संज्ञायामिति-*कृत्रिमाऽकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः* इति न्यायेन नात्र पारिभाषिकस्य नाम्नो ग्रहणं गोऽक्षयो मत्वाव्यभि- 5 चारात्, किन्तु निरूढं लौकिकमेवेत्याह-नाम्नि सज्ञायामिति । सा च समुदायेनैव गम्यते नावयवैरित्याह-गम्यमानायामिति ।। २८ ।।।
स्वरे वानक्षे॥ १. २. २६॥
गोरोकारस्य पदान्ते वर्तमानस्य स्वरे परे 'अव' इत्ययमादेशो वा भवति, अनक्षे-स चेत् स्वरोऽक्षशब्दस्थो न भवति । गवाग्रम्, गवाजिनम्,10 गवोष्ट्रः, गवौदनः गवेश्वरः, पक्षे यथाप्राप्तम्-गोऽग्रम्, गोअग्रम्, गोऽजिनम्, गोअजिनम्, गवुष्ट्रः, गवोदनः, गवीश्वरः । स्वर इति किम् ? गोकुलम् । अनक्ष इति किम् ? गोऽक्षम्, गोअक्षम् । पदान्त इत्येव ? गवि । श्रोत इत्येव ? चित्रग्वर्थः । गोरित्येव ? द्योऽग्रम् । हे चित्रगवुदकमित्यत्र तु लाक्षणिकत्वाद् गोशब्दस्य न भवति ।। २६ ।।
15 न्या० स०-स्वरे वेत्यादि। न अक्षोऽनक्ष इति प्रसज्य वृत्तिन्त्र , पर्यु दासे हि विधेः प्राधान्यात् प्रतिषेधस्य तु सामर्थ्यप्रापितत्वाद् गोऽक्षसंघात इत्यादावनक्षविधिरेव स्यात्, न त्वक्षाश्रितः प्रतिषेधः, प्रसज्ये तु प्रतिषेधस्य प्रधानत्वादक्षादिसमुदायस्थेऽप्यक्षशब्देऽक्षाश्रितः प्रतिषेधः सिद्धघतीत्याह-चेत स्वर इत्यादि। पोत इत्येव इति-चित्रा गावो यस्य स चित्रगुः, पुवद्भावो ह्रस्वत्वं च, ततश्चित्रगवेऽयं चित्रग्वर्थ इति, अत्र 'प्रोतः' 20 इत्यनुवृत्तिमन्तरेण ह्रस्वत्वे कृते *एकदेशविकृतमनन्यवद् इत्येकदेशविकृतोऽप्ययं गोशब्द एवेत्यत्रापि स्यादित्यर्थः ।। २६ ।।
इन्द्रे ॥ १. २. ३० ॥
गोरोकारस्य पदान्ते वर्तमानस्येन्द्रस्थे स्वरे परे 'अव' इत्ययमादेशो भवति । गवेन्द्रः, गवेन्द्रयज्ञः । नित्यार्थं वचनम् ।। ३० ।।
न्या० स०–इन्द्र इति-'स्वरे' इत्यस्याधिकरणम् ‘इन्द्र' इति, ततस्तदादाविति वक्तव्यं गवेन्द्रयज्ञ इत्याद्यर्थम्, केवले च व्यपदेशिवद्भावाद् भवति ॥ ३०॥
25