SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० २६-२८.] [ ४७ नार्थात् शरुशब्दादुवर्णान्तलक्षणे ये, शरान् व्ययतीति वा डे भविष्यतीति । ।। २५ ।। श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः न्या० स० – व्यक्य इति । गव्यमिति - गोशब्दस्य युगादौ पाठो हितादावर्थे तदन्तार्थः, तेन 'सुगव्यम्, अतिगव्यम्' इत्यादावपि "उवर्णयुगादेर्य:" [ ७. १.३०. ] इति यः सिद्धः । शरशब्दाद् यप्रत्यये प्रकाराभावादवादेशाभावे कथं शरव्यमित्याशङ्कयाऽऽह — 5 शरव्यमितीति ।। २५ ।। - ऋतो रस्तद्धिते ॥ १. २. २६ ॥ ऋत ऋकारस्य यकारादौ तद्धिते परे रादेशो भवति । पितरि साधु पित्र्यम्, भ्रात्र्यम् । तद्धित इति किम् ? कार्यम् ।। २६ ।। न्या० स—ऋत इत्यादि । ननु 'कार्यम्' इत्यत्र परत्वाद् 'ध्यण' इत्यत्र गोपदेशाद 10 वा वृद्धिरेव भविष्यति किं तद्धितग्रहणेन ? सत्यम् अत्र तद्धितग्रहणं विना 'जागृयात्, इयूयात्' इत्यनयो रत्वं स्यात् । ननु 'परिसर्या' इत्यत्रापि प्राप्नोति न तत्रान्यदपि वक्तु शक्यम्-क्यपोऽधिकारे यग्रहणं गुरणार्थमिति ।। २६ ।। एदोतः पदान्तेऽस्य लुक् ॥ १.२.२७ ॥ एदोद्भ्यां पदान्ते वर्तमानाभ्यां परस्याकारस्य लुग् भवति । तेऽत्र, पटोऽत्र, 15 यजन्तेऽत्र । एदोत इति किम् ? दध्यत्र । पदान्त इति किम् ? नयनम्, लवनम् । अस्येति किम् ? तयिह, पटविह ।। २७ ।। न्या० स० - एदोत इत्यादि - यद्यपि 'पदान्ते' इति व्यधिकरणं विशेषरणमकारस्यैतदोश्च सम्भवति, तथाप्येदोतोरेव कर्तव्यम्, “गोर्नाम्न्य०" [१.२.२८.] इत्यत्राकारलोपबाधनार्थमवादेशविधानात्, अकारस्य पदान्त इति विशेषणे गवाक्ष इत्यत्रापदान्तत्वाद - 20 कारस्य लोपप्राप्तिरेव नास्ति, कुतस्तदपवादोऽवादेशः सम्भवति ?, किञ्च, "एदोत: ०" [१. २. २७. ] इत्यत्रैव सूत्रे 'अस्य' इत्यस्मिन्नदेव सूत्रांशेऽकारस्य "नाम सिद्" [१. २. २१.] इति पदत्वे "एदोतः पदान्ते ०" [१. २. २७.] इत्यनेन लोपप्राप्तिर्नान्यत्रेति एदोतोरेव पदान्त इति विशेषणमिति ।। २७ ।। गोर्नाम्न्यवोक्षे ॥ १.२.२८ ॥ गोरोकारस्य पदान्ते वर्तमानस्याक्षशब्दे परे नाम्नि -संज्ञायां गम्यमा 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy