SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ४५ सङ्ग्रहार्थम् 'इवर्णादेः' इति पञ्चमी व्याख्येया ।। २१ ।। न्या० स०-इवर्णेत्यादि । केचिदिति-देवनन्द्यादयः। 'प्रस्वे स्वरे' इति-असमस्तनिर्देशः स्वरसम्बन्धनिवृत्त्यर्थः, तेन “एदैतोऽयाय" [१. २. २३.] इत्यादौ स्वरस्यैवानुवृत्तिर्न तु 'अस्वे' इत्यस्य, तेन "रायैन्द्री" इत्यादौ स्वेऽपि भवति । पित्रर्थ इति-पित्रे अयमिति अस्वपदेन विग्रहः, "तदर्थार्थेन" [३. १. ७२.] इति अर्थशब्देनैव चतुझं 5 अभिहितत्वाद् वाक्याभावेऽर्थशब्देनैव नित्यसमासः ।। २१ ।। इस्वोपदे वा ॥ १. २. २२॥ इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा भवति, अपदे-न चेत् तौ निमित्तनिमित्तिनावेकत्र पदे भवतः । नदि एषा, नद्येषा; दधि अत्र, दध्यत्र; मधु • अत्र, मध्वत्र; अति एति, अत्येति; अनु एति, अन्वेति । ह्रस्वस्यापि ह्रस्वः10 पर्जन्यवल्लक्षणप्रवृत्ते, ह्रस्वविधानसामर्थ्याच्च कार्यान्तरं न भवति । कश्चित् तु पक्षे प्रकृतिभावमपीच्छति-कुमारी अत्र । अपदे इति किम्, नद्यौ, वध्वौ, नधुदकम्, वध्वासनम्, नद्यर्थः, गौर्याराधः, अन्तर्वतिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम्, एवम्-अनुव्यचलत् अथवा 'अनुप्राविशद्' इत्यादिवदखण्डमव्ययं विभक्त्यन्तत्वाच्चैकपदत्वम्, अत एवैतद्योगे “सपूर्वात्15 प्रथमान्ताद् वा" [२. १. ३२.] इति विकल्पेन वस्नसादयो भवन्ति-अथो अनुव्यचलद् वो देवदत्तः, अथो अनुव्यचलद् युष्माकं देवदत्तः, अथो अनुप्राविशद् वो जिनदत्तः, अथो अनुप्राविशद् युष्माकं जिनदत्त इत्यादि । इवर्णादेरित्येव ? हे मुनयाचर, हे साधवाचर । स्वर इत्येव ? नदी वहति । अस्व इत्येव ? दधीदम् ।। २२ ।। 20 न्या० स०-हस्व इत्यादि । प्रति एतीति-ह्रस्वोऽपि सन्धिकार्यमिति “नित्या धातूपसर्गयोः” इति प्रवर्तत एवेति । ह्रस्वस्यापोति-अयमर्थः-*व्यक्तिः पदार्थः तत्र प्रतिव्यक्तिलक्षणेन प्रवर्तितव्यम्, अप्रवृत्तौ चानर्थक्यं तस्य स्यात्, इति पर्जन्यवत् फलाभावेऽपि तेन प्रवर्तितव्यम्, पर्जन्यो हि यावदूनं पूर्णं च सर्वमभिवर्षति । वध्वाविति-ननु ऊकारस्य औकारस्य च औष्ठ्यत्वाद् अस्वस्वराभावेन 'अपदे' इति व्यावृत्तेढे यङ्ग-25 विकलतेति, सत्यम्-मतान्तरेण औकारः कण्ठ्यौष्ठ्य इति ऊकारमोष्ठ्यप्रति अस्व इति न द्वघङ्गविकलतेति, एवं 'नयेषा' इत्यत्राप्यस्वस्वरत्वमभ्यूह्यम् । 'नधुदकम्' इत्यादी षष्ठीसमासे सत्यष्यन्तर्वतिविभक्त्यपेक्षया पदत्वमपीति युगपत् पदत्वापदत्वे अत्र, सूत्रे'अपदे' इति सूत्रांशे नत्रः प्रसज्यस्याऽश्रयणम्, तत्र विधेः सामर्थ्यप्राप्ततया गौणत्वात् प्रतिषेधस्य
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy