SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६१० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १३६-१४३.] समस्ततहिते वा ॥ ३. २. १३६ ॥ सम्शब्दस्य तते हिते चोत्तरपदे लुगन्तादेशो वा भवति । सततम्, संततम्, सहितम्, संहितम् ।। १३९ ।। तुमश्च मनःकामे ॥ ३. २. १४० ॥ तुम्प्रत्ययान्तस्य सम्शब्दस्य च प्रत्येकं मनसि कामे चोत्तरपदे 5 लुगन्तादेशो भवति । भोक्तुं मनोऽस्य भोक्तुमनाः, गन्तुं कामोऽस्य गन्तुकामः, सम्यग्मनोऽस्य समनाः, एवं सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थं वचनम् ।। १४० ।। मांसस्यानधनि पचि नवा ॥ ३. २. १४१ ॥ मांसशब्दस्यानडन्ते घअन्ते च पचावुत्तरपदे लुगन्तादेशो वा भवति । 10 मांसस्य पचनं मांस्पचनम्, मांसपचनम्, मांस्पचनी, मांसपचनी, मांसस्य पाकः, मांस्पाकः, मांसपाकः । अनड्घजीति किम् ? मांसपक्तिः । पचाविति किम् ? मांसदाहः, मांसदहनी ।। १४१ ।। न्या० स०--मांसस्य०। मांस्पचनमिति अत्र प्रसिद्धं बहिरङ्गमन्तरङ्ग इति न्यायादलोपस्यासिद्धत्वात् सो रुनं भवति, न तु 'स्वरस्य परे' [ ७. ४. ११०.] इति15 स्थानित्वं । 'न संधि' [ १. ३. ५२.] इत्यनेनासविधौ स्थानित्वनिषेधात् ।। ३. २. १४१ ॥ दिकशब्दात्तीरस्य तार ॥ ३. २. १४२ ॥ दिक्शब्दात्परस्य तीरशब्दस्योत्तरपदस्य तार इत्ययमादेशो वा भवति । दक्षिणस्या दिशः दक्षिणस्य वा देशस्य तीरं दक्षिणतारं, दक्षिणतीरम्-20 एवमुत्तरतारमुत्तरतीरम्, पश्चिमतारं पश्चिमतीरम्, पूर्वतारं, पूर्वतीरम्, । दिक्शब्दादिति किम् ? गङ्गातीरम् ।। १४२ ।। न्या० स०--दिक्शब्दा०। पश्चिमतारमिति स्त्रियां तु सर्वादित्वाभावात् पुभावाप्रवृत्ती पश्चिमातारं पश्चिमातीरमिति भवति ।। ३. २. १४२ ।। सहस्य सोन्यार्थे । ३. २. १४३ ॥ अन्यार्थे अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे परे सहशब्दस्य स 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy