SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १३५-१३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०६ न्या० स०--काक्ष० । कापथमिति पथः संख्येति नपुसकत्वं, बहुव्रीही त्वाश्रयलिङ्गता। एवं कापथ इति अत्र पुस्त्वमित्यमरः । गौडश्च यदाह 'व्यध्वौ विपथकापथौ' स्वमते तु नपुसकत्वमेव भवति । कुत्सितः पथः कुपथ इति भवति न तु कुपथम् । ।। ३. २. १३४ ।। पुरुषे वा ॥ ३. २. १३५ ॥ कुशब्दस्य पुरुषशब्दे उत्तरपदे कादेशो भवति वा। कुत्सितः पुरुषः कापुरुषः, कुपुरुषः, कुत्सिताः पुरुषा अस्मिन् कापुरुषो ग्रामः, कुपुरुषो ग्रामः । अनीषदर्थे विकल्पोऽयम्, ईषदर्थे तु परत्वादुत्तरेण नित्यमेव, तत्रापि विकल्प एवेति कश्चित्,-ईषत्पुरुषः, कापुरुषः, कुपुरुषः ॥ १३५ ॥ अल्पे ॥ ३. २. १३६ ॥ ईषदर्थे वर्तमानस्य कुशब्दस्योत्तरपदे परे कादेशो भवति । ईषन्मधुरं कामधुरं कालवणम् । स्वरादावपि परत्वादीषदर्थे कादेश एव भवति, ईषदम्लम्, काम्लम्, एवं काच्छम् ।। १३६ ।। .. न्या० स०--अल्पे। स्वरादावपि इति न 'कोः कत् तत्पुरुषे' [ ३. २. १२०.] इति कदादेश इत्यर्थः ।। ३. २. १३६ ॥ काकवी वोष्णे ॥ ३. २. १३७ ॥ कुशब्दस्योष्णशब्दे उत्तरपदे का कव इत्येतावादेशौ वा भवतः । ईषत्कुत्सितं वा उष्णम् कोष्णम्, कवोष्णम्, ईषत् कुत्सितं वा उष्णमत्र कोष्ण:, कवोष्णो देशः, पक्षे यथाप्राप्तम् इति-तत्पुरुषे कदुष्णम् । बहुव्रीहौ तु कदादेशो न भवति, कृष्णो देशः । अन्यस्त्वग्नावपीच्छति, काग्निः,20 कवाग्निः, कदग्निः ॥ १३७ ॥ कृत्येवश्यमो लक ॥ ३. २. १३८ ॥ अवश्यम्शब्दस्य कृत्यप्रत्ययान्ते उत्तरपदे लुक् अन्तादेशो भवति । अवश्यकार्यम्, अवश्यस्तुत्यम्, अवश्यदेयम्, अवश्यकर्तव्यम्, अवश्यकरणीयम् । कृत्य इति किम् ? अवश्यंलावकः ।। १३८ ।। न्या० स०--कृत्ये०। 'अव्ययं प्रवृद्धादिभिः' [ ३. १. ४८. ] 'मयूरव्यंसक' [ ३. १. ११६ ] इत्यादिना वा सर्वत्राऽत्र समासः ।। ३. २. १३८ ।। 15 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy