________________
[पा०-२. सू० ६३-६४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६३
चत्वारिंशदादौ वा ॥ ३. २. ६३ ॥
द्वित्र्यष्टानां प्राक्शताच्चत्वारिंशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते प्रादेशा वा भवन्ति, अनशीतिबहुव्रीहौ । द्वाभ्यामधिका द्वौ च चत्वारिंशच्चेति वा द्वाचत्वारिंशत्, द्विचत्वारिंशत्, त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्, अष्टाचत्वारिंशत्, अष्टचत्वारिंशत्, द्वापञ्चाशत्, द्विपञ्चाशत्, 5 त्रयःपञ्चाशत्, त्रिपञ्चाशत्, अष्टापञ्चाशत्, अष्टपञ्चाशत्, द्वाषष्टिः, द्विषष्टिः, त्रयःषष्टिः, त्रिषष्टिः, अष्टाषष्टिः, अष्टषष्टिः, द्वासप्ततिः, द्विसप्ततिः, त्रयःसप्ततिः, त्रिसप्ततिः, अष्टासप्ततिः, अष्टसप्ततिः, द्वानवतिः, द्विनवतिः, त्रयोनवतिः, त्रिनवतिः, अष्टानवतिः, अष्टनवतिः। अनशीतिबहुव्रीहावित्येव ? द्वयशीतिः, व्यशीतिः, अष्टाशीतिः, द्विश्चत्वारिंशत्, द्विचत्वारिंशाः, एवं10 त्रिचत्वारिंशाः अष्टौ चत्वारिंशतोऽस्मिन् अष्टचत्वारिंशत् । पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् ।। ६३ ।।
हृदयस्य हल्लासलेखाण्ये ॥३. २. ६४ ॥
हृदयशब्दस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे हृदित्ययमादेशो भवति । लास, हृदयस्य लासो हल्लासः, लेख, हृदयं लिखतीति15 . हृल्लेखः, अण संनिधानाल्लेखशब्दोऽणन्तो गृह्यते, तेन घनन्ते न भवति, हृदयस्य लेखः हृदयलेखः, अरण,-हृदयस्येदं हार्दम्,-सौहार्दम्, दौहार्दम्, य,हृदयस्य प्रियः हृद्यः, हृदयस्य बन्धनो मन्त्रः हृद्यः, हृदये भवं हृदयाय हितम् हृद्यम् । अरणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न भवति । 'खित्यनव्यय-[३. २. १११.] इत्यादौ तु असंभवात्त-20 दन्तग्रहणम्-हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्त्यर्थम्, अन्यत्र तूभयं प्रयुज्यते, सौहार्यम्, सौहृदय्यम्, हृच्छोकः, हृदयशोकः, हृद्रोगः, हृदयरोगः, हृच्छकुः, हृदयशङकुः, हृच्छू लम्, हृदयशूलम्, हृच्छल्यम्, हृदयशल्यम्, हृद्दाहः, हृदयदाहः, हृद्द खम्, हृदयदुःखम्, हृत्कमलम्, हृदयकमलम्, हृत्पुण्डरीकम्, हृदयपुण्डरीकम् इत्यादि ।। ६४ ।। 25