SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ८६-६१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६१ ददित्यस्यापवाद: 'स्वरादुपसर्गात्' [ ४. ४. ६.] इति दा इत्यस्य त् इत्यादेशः । दागस्तु निदातुमारब्धं 'प्रारम्भे' [५. १. १०.] क्तः । 'निविस्वन्ववात्' [४. ४. ८. ] विकल्पेन त् ॥ ३. २. ८८ ।। अपील्वादेर्वहे ॥ ३. २. ८६ ॥ पील्वादिजितस्य नाम्यन्तस्य वहे उत्तरपदे परे दीर्घोऽन्तादेशो भवति। 5 वहतीति वहम्, 'अच्' [५. १. ४६.] इत्यच् । ऋषीणां वहम्-ऋषीवहम्, मुनीवहम्, कपीवहम्, एवं नामानि नगराणि । घान्ते तु वहशब्दे ऋषीवहः, मुनीवहः, कपीवहः । अपील्वादेरिति किम् ? पीलुवहम्, दारुवहम्, चारुवहम् । नामिन इत्येव ? पिण्डवहम्, काष्ठवहम् ।। ८६ ।। न्या० स०--अपील्वा०। अत्र वहशब्दोऽजन्तो घान्तश्च गृह्यते लिङ्गाच्च10 विशेषो वाच्यः ।। ३.२.८६ ।। . शुनः ॥ ३. २. १० ॥ श्वन इत्येतस्योत्तरपदे परे दीर्घोऽन्तादेशो भवति । शुनो दन्तः श्वादन्तः एवं श्वादंष्ट्रा, श्वाकर्णः, श्वाकर्दः । श्वाकूर्दः, श्वावराहम् । बहुलाधिकारात्क्वचिद्विकल्पः श्वापुच्छम्, श्वपुच्छम् । क्वचिद्विषयान्तरे-शुनः15 पदमिव पदमस्य श्वापदम् व्याघ्रादिः, शुनः पदं-श्वपदम् । क्वचिन्न भवतिश्वफल्कः श्वमुखः ।। ६० ।। न्या० स०--शुनः। श्वापदम् इत्यत्र बाहुलकान्नपुसकत्वमऽन्यथा देहिनामत्वात् पुस्त्वं स्यात् ।। ३. २. ६० ।। एकादश षोडश षोडन् घोढा षड्ढा ॥ ३. २. ६१ ॥ 20 ___ एकादयः शब्दा दशादिषु उत्तरपदादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकोत्तरा दश, एकं च दश च वा एकादश, अत्रकस्य दशशब्दे उत्तरपदे दीर्घः, षडुत्तरा दश, षट् च दश च वा षोडश,-अत्र षषोऽन्तस्योत्वम् उत्तरपददकारस्य च डकारः, षड् दन्ता अस्य षोडन्, अत्र दन्तशब्दस्य दत्रादेशे कृते दस्य डत्वं च षषोऽन्तस्योत्वम्, एवं षोडन्तौ, षोडन्तः, स्त्रियां तु षोडती, अन्ये तु दत्रादेशे25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy