________________
[पा० २. सू० ६०-६१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७७
[ ७. २. १६२. ] इत्यपि । तेन देव एव देवतेतिवत् नामग्रहणे* इति न्यायाद् देवीशब्दादपि तलि देवतेति सिद्धम् । ऐश्वर्यरूपगुणाभिधायकत्वाद् देवीशब्दोऽपि गुणवचनः । जातिवाचित्वे तु देव्येव देवीता देव्या भावो देवीत्वं देवीतेति भवति । गुण इति गुणद्वारेण गुरिणनि वर्तमानो गुणवचनो गृह्यते । गुणमात्रवृत्तेरस्त्रीलिङ्गत्वात् भावाऽप्राप्तिरिति । कठीत्वमिति ननु कठोत्वमिति गुण इति व्यावृत्तौ कथं दर्शितं यतोऽत्र 5 गुरण इत्यसत्यपि जातेः पुंभावप्रतिषेधादेव न भविष्यति ? नैवं, सर्वापवादत्वादस्य । किंच कीत्वं कीता इत्यादिक्रियाशब्दार्थं गुणग्रहणं कर्त्तव्यमेव तस्मिश्च सति जातावपि प्रत्युदाह्रियते । केचित्रिवति तन्मतसंग्रहार्थं गुणो विशेषणमित्यपि व्याख्येयम् ।। ३. २. ५६ ॥ च्वी क्वचित् ॥ ३. २. ६० ॥
10 परतः स्त्री अनूङ् च्वौ पुंवद्भवति, क्वचिल्लक्ष्यानुरोधेन । अमहती महती भूता महद्भूता कन्या, एवं बृहत्कृता, क्वचिद्ग्रहणादगोमती गोमतीभूता गोमतीभूतेत्यादौ न स्यादेव, पट्वीभूता पटूभूता, मृद्रीकृता मृदूकृतेत्यादौ विकल्पः । महतीभूतेत्यपि केचित् ।। ६० ।।
सर्वादयोऽस्यादौ ॥ ३. २. ६१ ।।
15 सर्वादिर्गणः परतः स्त्री पुंवत् भवति, 'अस्यादौ' स्यादिश्चेत्ततः परो न भवति । सर्वासां स्त्रियः सर्वस्त्रियः, भवत्याः पुत्रः भवत्पुत्रः, एकस्याः क्षीरमेकक्षीरम्, एकस्या आगतमेकरूप्यम्, एकमयम्, तया प्रकृत्या, तथा, एवं यथा, तस्यां वेलायां-तदा, एवं यदा, कदा, सर्वदा, अन्यदा, तर्हि, यहि, कहि, सर्वामिच्छति, सर्वकाम्यति, भवत्काम्यति, एककाम्यति, परत्वात्प्रतिषेध-20 विषयेऽपि भवति, सर्वा प्रियाऽस्य-सर्वप्रियः, एवं सर्वमनोज्ञः, सर्विका भार्याऽस्य सर्वकभार्यः, एवं विश्वकभार्यः । सर्वादय इति किम् ? कन्यापुरम्, कुमारीनिवासः । अस्यादाविति किम् ? सर्वस्यै, दक्षिणपूर्वस्यै, उत्तरपूर्वस्यै । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्वसर्वादेरपि भवति, दक्षिणोत्तरपूर्वाणाम् इयादि ।। ६१ ॥
25
न्या० स०-सर्वादयो। तया प्रकृत्येति स्त्रीत्वव्यक्त्यर्थमिदं वाक्यं तेन प्रकारेणेति वक्तव्ये । अथ चाऽत्र पुवद्भावः किमर्थः समजनि ? उच्यते, अत्र वद्भावे सति