SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १५६-१५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५३६ गड्वादिभ्यः ॥ ३. १. १५६ ॥ वेत्यनुवर्तते, गड्वादिभ्यः शब्देभ्यो बहुव्रीहौ सप्तम्यन्तं वा पूर्व निपतति । गण्डुकण्ठः, कण्ठेगडुः, एवं शिरसिगडुः, गडुशिराः, शिरस्यरुः, अरुःशिराः, मध्येगुरुः, गुरुमध्यः, अन्तेगुरुः, गुर्वन्तः । व्यवस्थितविभाषया वहेगडुरित्येव भवति ।। १५६ ।। प्रियः॥ ३. १. १५७ ॥ प्रियशब्दो बहुव्रीहौ समासे पूर्व वा निपतति । प्रियगुडः, गुडप्रियः, प्रियविश्वः, विश्वप्रियः, प्रियचत्वाः, चतुष्प्रियः ।। १५७ ।। न्या० स०-प्रियः। प्रियगुड इति । अत्र प्रियशब्दस्य गुडादेर्वा विशेषणत्वेन नित्यमेकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपातः। प्रियचत्वा इति10 अत्र चतुःशब्दस्य संख्यात्वान्नित्यं पूर्वनिपातः प्राप्तः ।। ३. १. १५७ ।। कडारादयः कर्मधारये ॥ ३. १. १५८ ।। कडारादयः शब्दाः कर्मधारये समासे वा पूर्वं निपतन्ति । कडारजैमिनि:, जैमिनिकडारः, गडुलगालवः, गालवगडुलः, काणद्रोणः, द्रोणकाणः, खञ्जमौजायनः, मौजायनखञ्जः, कुण्टवात्स्यः, वात्स्यकुण्टः, खेलदाक्षिः,15 दाक्षिखेलः, खोडकहोडः, कहोडखोड:, खलतिखारपायणः, खारपायणखलतिः, गौरगौतमः, गौतमगौरः, पिङ्गलमाण्डव्यः, माण्डव्यपिङ्गलः, वृद्धमनुः, मनुवृद्धः, भिक्षुकदाक्षिः, दाक्षिभिक्षुकः, बठरच्छान्दसः, छान्दसबठरः, तनुतृणबिन्दुः; तृणबिन्दुतनुः, कूटप्लाक्षिः, प्लाक्षिकूटः । कडारादीनां गुणवचनत्वात् द्रव्यशब्दानित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थं वचनम् ।20 यदा तु द्वावपि गुणशब्दौ तत्र निर्शातानिख़ताभ्यां विशेषणविशेष्यत्वे पर्यायेण पूर्वनिपात इत्युक्तमेव । गडुलकाणः, काणगडुलः, खञ्जकुण्टः, कुण्टखजः, खोडखलतिः, खलतिखोडः, गौरवृद्धः, वृद्धगौरः, पिङ्गलभिक्षुकः, भिक्षुकपिङ्गलः, बठरतनुः, तनुबठरः । बहुवचनमाकृतिगणार्थम्-तेन नटबधिरादयोऽपि द्रष्टव्याः ।। १५८ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy