________________
५३२ ]
बृहवृत्ति-लधुन्याससंवलिते
[पा० १. सू० १४६.]]
सहस्र तु पितुर्माता, गौरवेणातिरिच्यते । तत् किं पितृगिरा रामो, विधत्ते रेणुकावधम् ॥ १।।
5
तन्न विचार्यम् । यदुक्त
यत्कृतं परशुरामेण पितुर्वचनगौरवात् ।।
तदन्यैस्तु न कर्त्तव्यं न देवचरितं चरेत् ।। २ ।। . श्रद्धामधे इति यद्यपि इमावद्रव्यशब्दौ तथाप्युपचाराद् द्रव्ये वर्त्तते तदा व्यक्तिविवक्षायां 'चार्थे द्वंद्वः सहोक्तौ' [३. १. ११७.] इत्यनेन प्राप्ते। याज्यानुवाक्ये इति 'याज्या दानचि' इज्यते इति याज्या याज्या च अनुवाक्या चेति वाक्यं कार्यम् । श्रुततपसी इति धर्मार्थादित्वात्तपःश्रुते इत्यपि। दोक्षातपसी इति अर्चितत्वाद् दीक्षायाः पूर्वनिपातः एवं श्रद्धातपसी इत्याद्यपि ।। ३. १. १४५ ।।
10
संख्याने ॥३. १. १४६ ॥
इयत्तापरिच्छेदः संख्यानम्, वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्व एकार्थो न भवति । दश गोमहिषाः, एतावन्ति दधिघृतानि, बहवः . प्लक्षन्यग्रोधाः, दश हस्त्यश्वाः, शतं यूकालिक्षाः, तावन्ति बदरामलकानि, बहवः पाणिपादाः, कति मार्दङ्गिकपाणविकाः, उदगुर्दशेमे कठकालापाः,15 द्वावश्विमेधौ, द्वादश पदकक्रमकाः, द्वौ गङ्गाशोणौ, पञ्च तक्षायस्काराः, इयन्तो गवाश्वाः ।। १४६ ।। ..
न्या० स०--संख्याने। इयत्तापरिच्छेद इति । इयतां भाव इयत्ता तस्याः परिच्छेदो दश द्वादश चेति संख्यापदैरवंधारणम् । वत्तिपदार्थानामिति वर्त्तनं वर्त्तः, समासार्थः सोऽस्ति येषां पूर्वपदोत्तरपदार्थानां ते वत्तिनस्तदभिधायकानि पदानि वत्ति-20पदानि पूर्वपदोत्तरपदस्वभावानि तेषामर्था अभिधेयरूपास्तेषामिति । दश गोमहिषा इति अत्र गोमहिषलक्षणस्य वत्तिपदार्थस्य दशेत्यनेन दशसंख्याया: परिच्छेदः क्रियते । बहवः पाणिपादा इति ननु दशेत्यादिना बह्वर्थेन गोमहिषमित्याद्येकार्थस्य सामानाधिकरण्याभावात् दशेत्यादिसंख्याशब्दप्रयोगादेव एकवद्धावस्यायोगादेकवद्भावो न भविष्यतीति किमर्थमस्यारम्भ इति ? उच्यते, अस्यानारम्भे विहितैकवद्भावप्रयोगे दशादि-25 संख्यापदप्रयोगायोगात्तत् प्रयोगे विहितैकवद्धावस्यानिवर्त्तनादस्यारम्भ इत्यदोषः ।। ३. १.१४६ ॥