SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५३० ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० १४४.] गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवामनम्, कुब्जकैरातम्, कुब्जकैरातकम्, पुत्रपौत्रम् । नित्यवैराभावपक्षे-श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपच्छिकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनपुरुषम्, तृणोलपम्, कुडीकुडम्, दासीदासम्, भागवतीभागवतम्-त्रिष्वेतेषु 'पुरुषः स्त्रिया' 5 [३. १. १२६.] इत्येकशेषो न भवति निपातनात् । ' गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः गोऽश्वौ, गोऽश्वम्, गोअश्वौ, गोअश्वम्, गोऽविकौ, गोऽविकम्, गवेलको, गवेलकम्, पशुविभाव. भवति ।। १४४॥ न्या० स०--गवा० । गवाश्वादिष्वजैडकं यावत् 'पशुव्यञ्जनानाम्' [३ १.१३२.] 10 इति विकल्पे नित्यार्थः पाठः। सर्वेषु च 'स्वरे वाऽनक्षे' [ १. २. २६. ] इत्यवादेशः । कुब्जवामनम्-इत्यादिषु चतुर्दा न्यायसिद्धे समाहारेतरेतरयोगे नित्यार्थः । श्वचण्डालमिति नित्यवैरे 'नित्यवैरस्य' [ ३. १. १४१. ] इत्येव सिद्धमित्याह-नित्यवैराभावपक्षे इति । ये चाण्डालपाटके श्वानो वसन्ति तेऽत्र विवक्षिताः । न च तेषां चण्डालैः सह वैरमस्ति। यद्वा चण्डाला: श्वानं घ्नन्ति अतोऽसौ घावति इति नित्यवैराभावः । पद्यते: 'तुदिमदि'15 १२४ (उणादि) इति छकि गौरादित्वात् ङ.यां स्वाथिके के च पच्छिका छाजिकेति - प्रसिद्धिः। शाटीपच्छिकमिति उपाध्यायस्त्वाह सततमनिमित्तवैरिणां कथमिव द्वद्वो . वैरं नाभिदध्यात् । न विवक्षितमिति चेत् वस्तुस्थितस्य कोदृश्यविवक्षा। तस्यामहिनकुलावित्यादयोऽप्रयोगा एव स्युः। उत्पलोद्योतकरादयो व्यावक्षते श्वचण्डालमित्यस्य पाठः शुनां चण्डालानां च नित्यवैरित्वाभावात् । न हि यथा श्वपचा: श्वानश्च नित्यवैरिणस्तथा 20 श्वानश्च चण्डालाश्च । अत्र जातित्वात् 'अप्राणि' [३. १. १३६.] इति सिद्धावपि व्यक्तिपरनोदनायामपि यथा स्यादित्यस्य पाठः ।। उष्ट्रखरमिति पशुत्वाद् विकल्पे प्राप्ते। उष्ट्रशशमित्यत्र वितरेतरयोगे प्राप्ते । पशुविकल्पश्च नास्ति शशस्याग्राम्यत्वात् । मूत्रशकृदिति धर्मार्थादित्वात् शकृन्मूत्रमपि, मूत्रशकृदित्यादौ व्यक्तिपरनोदनायाम् 'अप्राणि' [ ३.१.१३६. ] इति न सिध्यतीत्यू-25 पादानम् । दर्भशरमिति दर्भादीनां तृणजातित्वादप्राणीति नित्यविवे: पश्वादित्वात्तृणविकल्पे बाधके प्राप्तेऽयं विधिः । अर्जुनपुरुषमिति पुरुषशब्दोऽत्र तृणविशेषवाची, परुष इत्यपि दृश्यते तच्चिन्त्यम् । कुडी 'कुडत् बाल्ये च' 'नाम्युपान्त्य' [५. १. ५४.] इति के 'वयस्यनन्त्ये' [ २. ४. २१. ] इति ङयां कुडी बाला, कुडो बालः । कुटीकुटमिति उद्योतकरेण टो निरीक्षणीयः। गवेलकमिति 'स्वरे वानक्षे' [ १. २. २६. ] इत्यवा-30 देशेऽपि लत्वस्य विकृतत्वात्त्वसंहतिः ।। ३. १.१४४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy