SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५२८ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० १४२.] निनिमित्तं वैरमपि तु राज्यापहारादिकृतम् । अन्ये तु वैर एवाभिधेये समाहारमिच्छन्ति-श्वावराहम्, मार्जारमूषिकम् वैरमिति, वैरिषु तु यथाप्राप्तम्, दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोविद्यते लोक औत्पत्तिको विरोधो यथा मार्जारमूषिकयोः ।। १४१ ।। न्या० स०--नित्यवरस्य। 'गवाश्वादिः' [ ३. १. १४४. ] इत्यत्र नित्यवैरा-5 भावपक्षे श्वचंडालमित्युक्त तच्च परमते ज्ञातव्यम्, केचिदभ्यधु नयोनित्यं वैरं किंतु कृतकं वैरम् । तथाहि-चण्डालः श्वानं हन्ति प्रथमं ततः श्वा पृष्ठतो धावति इति कृतकं वैरम् । नित्यमनिमित्तमिति जातेरन्यदर्थादि निमित्तं न विद्यत इत्यर्थः। पशुविकल्प इति पशुद्धद्वविकल्पो महाजोरभ्रमित्यादौ सावकाशोऽयं तु नित्यविधिर्ब्राह्मणश्रमणमित्यादी अश्वमहिषं काकोलूकमित्य तूभयप्राप्तौ परत्वादयमेव विधिरित्यर्थः। कौरव-10 पाण्डवा इति कुरुशब्दादिदमर्थे 'उत्सादेरञ्' [ ६. १. १६.] पाण्डुशब्दादपत्ये 'शिवादेरण' [ ६. १. ६०.]। वैर एवेति तच्चोपचारात् श्वावराहादिकृतं वैरमपि श्वावराहम् । श्वावराहं वैरमिति श्वा वराहश्चेत्युपचाराद् वैरे वर्तते। औत्पत्तिक इत्यत्र उत्पत्ती भवः 'अध्यात्मादिभ्य इकण्' [६. ३. ७८.] जन्मप्रभव इत्यर्थः ।। ३. १. १४१ ।। नदीदेशपुरा विलिङ्गानाम् ॥ ३. १. १४२ ॥ 15 विविधं लिङ्ग येषां तेषां नदीदेशपुराभिधायिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थो भवति । नदी उद्ध्यश्च इरावती च उध्येरावति, गङ्गा च शोणश्च गङ्गाशोणम्, विपाट् च स्त्री चक्रभिच्च नपुंसकम् विपाट्चक्रभिदम् । देशकुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्, कुरुकुरुजाङ्गलम्, वरेन्द्रीमगधम्, पुरम्मथुरापाटलिपुत्रम्, काञ्चोकन्यकुब्जम् । पुरां देशत्वात्तद्ग्रहणेनैव सिद्धे पूर्ग्रहणं20 ग्रामनिषेधार्थम् जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ । स्वैरित्येव? शौर्यं च नगरं केतवता च ग्रामः शौर्यकेतवते, पूर्णामसंभेदेऽपीच्छत्यन्य:शौर्यकेतवतम्, पूर्देशसंभेदेऽपीत्यपरे-श्रावस्तीमध्यदेशम्, मगधश्रावस्ति । नदीदेशपुरामिति किम् ? कुक्कुटमयूयौं । देशग्रहणेन चेह जनपदानां ग्रहणम् पृथग्नदीपूग्रहणात्-तेनेह न भवति-गौरी च कैलासश्च गौरीकैलासौ पर्वतौ,25 कैलासश्च गन्धमादनं च कैलासगन्धमादने पर्वतौ । विलिङ्गानामिति किम् ? गङ्गायमुने, मद्रकेकयाः मथुरातक्षशिले ॥ १४२ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy