SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १४०-१४१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२७ क्रतुग्रहणं किमिति । अत्र ऋतुशब्दस्य ससोमके यागे रूढत्वाद्दर्शपौर्णमासयोश्चानाम्नातसोमपानत्वाद्यजुर्वेदोपदिष्टत्वेऽपि ऋतुशब्देनानभिधानान्नैकवद्भाव इत्यर्थः । यत्र त्वसोमपानेऽपि ऋतुशब्दः श्रूयते दर्शपौर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विज इति स प्रशंसार्थ औपचारिक इत्यदोषः। दर्शपौर्णमासाविति दृश्यतेऽनेन व्यञ्जनाद् घत्रि दर्शोऽमावस्या उपचारादर्शभवो यागोऽपि दर्शः। पूर्णो माश्चन्द्रोऽस्यां पूर्णमासोऽण 5 ङी:, पौर्णमास्यां यागः ‘भर्तु संध्यादेरण' [ ६. ३. ८६. ] ।। ३. १. १३६ ।। निकटपाठस्य ॥ ३. १. १४० ॥ निकटः पाठो येषामध्येतृ णां ते निकटपाठः, तद्वाचिनां द्वन्द्व एक-एकार्थो भवति स्वैः । पदमधीते पदकः, एवं क्रमकः, पदकश्च क्रमकश्च पदकक्रमकम्,पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम्, एवं क्रममधीते क्रमकः, वृत्तिमधीते10 वार्तिकः, क्रमकश्च वार्तिकश्च क्रमकवार्तिकम्, चर्चा पारयतीति चर्चापारः, स च खण्डिकश्च चर्चापारखण्डिकम् निकटेति किम् ? याज्ञिकवैयाकरणौ । पाठेति किम् ? पितापुत्रौ ।। १४० ॥ ___ न्या० स०--निकट०। इह पाठशब्दो भावे कर्मणि वा। भावपक्षे पाठशब्देन पाठक्रियोच्यते तेन पाठक्रियया निकटव्यपदेशानामित्यर्थो जायते । निकटत्वं च कालरूपं 15 प्रसिद्धमेव । यथा सूत्राध्ययनसमाप्तिसमनन्तरमेव धातवः पठ्यन्ते । तथैव पदान्यधीत्य क्रमोऽधीयते इत्यर्थो भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्थो द्रव्यात्मा उच्यते । स च ग्रन्थ एकोऽपि पदक्रमसंहिताभेदकल्पनया भिन्नस्ततश्च पठ्यमानैकग्रन्थनिमित्तं कालरूपतो नैकटयं संभवति । तेन पाठयोरिति पाठक्रिययोः । पठयमानग्रन्थयोर्वेत्यर्थः, वृत्तिमधीते न्यायादित्वादिकरिण-वात्तिकः यज्ञमधीते 'याज्ञिकौक्थिक' [६. २. १२२.] 20 इति निपातः । याज्ञिकः अत्र पाठक्रिये पठितव्यौ च ग्रन्थौ अत्यन्तं संनिकृष्टौ इति तन्निमित्तौ शब्दावपीति । पितापुत्राविति अत्र निकटा जननक्रिया न तु पाठ इति ॥ ३. १. १४० ।। नित्यवैरस्य ॥ ३. १. १४१ ॥ नित्यमनिमित्तं जातिनिबद्धं वैरं येषां तद्वाचिनां शब्दानां स्वैद्वंद्व एक एकार्थो भवति । अहिनकुलम्, मार्जारमूषिकम्, ब्राह्मणश्रमणम्, 'श्वावराहम्-25 'शुनः' [ ३. २. १०.] इति दोर्घत्वम्, श्वचण्डालम्, पशुविकल्पः पक्षिविकल्पश्च परत्वादनेन बाध्यते-अश्वमहिषम्, काकोलूकम् । नित्यवैरस्येति किम् ? कौरवपाण्डवाः, कौरवपाण्डवम्, देवासुराः, देवासुरम्:,-नैषां
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy