SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५०६ ] बृहवृत्ति-लवुन्याससंवलिते [पा० १. सू० ११७.] पलाशं तिष्ठति, अत्र तु समूहस्य प्राधान्यात् तस्य चैकत्वादेकवचनमेव भवतिएषु चाद्ययोः सहोक्त्यभावात्समासो न भवति-उत्तरयोस्तु चार्थयोः सहोक्त विद्यमानत्वात्समासो भवति। का पुनरियं सहोक्तिः-यद्वर्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सा सहोक्तिः । प्लक्षन्यग्रोधावित्यत्र हि प्लक्षोऽपि द्वयर्थः, न्यग्रोधोऽपि द्वयर्थः । प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणायमेवार्थः कथ्यते-उत्तरपदेन समुदायेन वा यद्वतिपदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । वर्तिपदार्थानामेव सह क्रियादिसंबन्धस्य यत् वाक्येनाभिधानं सा सहोक्तिरित्यपरे । एकविंशतिः द्वाविंशतिरित्यादिसंख्याद्वद्वः समुदायसंख्यैकत्वानुरोधेन विंशत्यादिवत्संख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । समाहारेऽपि 10 चाशताद्वन्द्व इति लक्षणात्स्त्रीलिङ्गो भवति । संख्याद्वद्वादन्यत्र तु एको देवदत्ताय दीयतां विंशतिश्चैत्रायेति एकविंशती अनयोर्देहि, एवं त्रिंशश्चत्वारिंशतौ, षष्टिसप्तत्यशीतय इत्यादौ द्विवचनबहुवचनान्तता द्वन्द्वप्रदेशाः 'द्वद्व वा' [१. ४. ११.] इत्यादयः ।। ११७ ।। न्या० स०-चार्थे द्वंद्वः । एकग्रहणादिति तद्ध्यनेकस्य पूर्वनिपातप्रसक्तावेकस्य 15 पूर्वनिपातनियमार्थं द्वयोश्च द्वद्वेऽनेकस्य पृर्वनिपातप्रसङ्गाभावादेकग्रहणमनर्थकं स्यात । यद्वा नाम नाम्नेति व्यक्तिः पदार्थो नाश्रीयते । अपि तु जातिः, अनुवृत्तस्य हि रूपस्य यथा लक्ष्याऽनुग्रहो भवति । तथाऽर्थकल्पना क्रियते इति बहूनामप्ययं समासः । इत्येव स्यादिति पूर्वपदस्योत्तरपदे प्रत्येकं 'पा द्वद्वे' [२. २, ३६.] इत्याकारः स्यादित्यर्थः । उद्गातार इत्यत्र मतान्तरेण पारादेशः । ग्रामो ग्राम इति अत्र च वीप्सायां सहोक्तिसंभवेऽपि20 चार्थाभावात् द्वद्वाभावः। सहोक्ताविति किमिति-यत्र समासे द्वयोर्द्धर्मयोर्धमिणोवा भिन्नयोः प्राधान्यं विवेद्यते सा सहोक्तिः, कर्मधारये तु मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वमतः खञ्जकुण्टादौ न सहोक्तिः । प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति पूर्ववत्थं संबन्धः, इतरेतरयोगे तिष्ठतः कस्क: प्लक्षश्च न्यग्रोधश्च समाहारे तु प्लक्षश्च न्यग्रोधश्चेति समुदायस्तिष्ठति, इह तु प्रत्येकं 25 क्रियया संबन्ध इति सहोक्त्यभाव इत्यर्थः । इह समुच्चयेति अत्र चार्थस्यानुवादेन द्वद्वो विधीयते, अप्रसिद्धस्वरूपस्य चानुवदनं नोपपद्यते, अतस्तत्स्वरूपं प्रदर्शयति, चार्थानां लक्षणपूर्वमुदाहरणन्याह-तत्रैकमर्थं प्रतीत्यादि अर्थः क्रियाकारकद्रव्यरूपः। द्वचादीनां क्रियाकारकद्रव्यगुरणानामिति तत्रकस्मिन् कारकेऽनेकक्रियाणामेकस्यां क्रियायामनेक
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy