________________
५०० 1
बृहद्वृत्ति - लघुन्याससंवलिते
'पूर्वकालै कसर्वजरत्पुराणन व केवलपूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरपूजार्थसन्महत्परमोत्तमोत्कृष्टा' इति, वृन्दारकनागकुञ्जरैरिति युवा खलतिपलितजरद्वलिनैरिति कृत्यतुल्याख्यमजात्येति, कुमारः श्रमणादिनेति, पञ्चसूत्रीं विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्वं निपतति, तृतीयान्तानां समावेशे परसूत्रनिर्दिष्टमेव तृतीयान्तं परं निपतति, 5 एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानां च समावेशे पूर्वापरनिपाते कामचार इतीच्छन्ति - प्रथमान्तसमावेशे, तुल्ययुवा, सदृशयुवा, कुमारपरमः, कुमारपरमा, कुमारसन्, कुमारसती । एवं महज्जघन्य प्रथमचरममध्यमध्यमादयोऽपि कुमारयुवा कुमारतुल्यः, कुमारतुल्या । तृतीयान्तसमावेशे, - वृन्दारकपलितः, वृन्दारकवलिनः, नागजरन्, वृन्दारकश्रमरणा, खलतिश्रमणा, 10 वृन्दारकप्रव्रजिता, खलतिप्रव्रजिता, जरत्कुलटा, जरत्तापसी इत्यादि । श्रमणादीनां पुंलिङ्गत्वे त्वनियमः, -तेन वृन्दारकश्रमणः, श्रमणवृन्दारकः, नागतापसः, तापसनागः कुञ्जरदासः, दासकुञ्जरः, तथा श्रमरणखलतिः, खलतिश्रमरणः । पलिततापसः तापसपलितः इत्यादि ।
[ पा० १. सू० ११५.]
अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव । वृन्दारकाध्यायकः 115. वृन्दारिकाध्यायिका । खलत्यध्यायकः, खलत्यध्यायिका, पलिताभिरूपकः, पलिताभिरूपिका, एकसूत्रोक्तानां प्रथमान्तानां समावेशे, - प्रथमवीर: वीरप्रथमः, चरमजघन्यः जघन्यचरमः इत्यादि, तुल्यभोज्यः, भोज्यतुल्य इत्यादि । एकसूत्रे तृतीयान्तानां समावेशे, - खलतिपलितः, पलितखलतिः, जरद्बलिनः बलिनजरन् इत्यादि ।। ११५ ।।
20
न्या० स० -- कुमारः । श्रमणेति श्रमं समस्तन्नयतीति डे ' पूर्व्वपदस्थात्' [२. ३. ६४.] इति संज्ञायां गत्वे श्राम्यतीति नन्द्यादित्वादने वा श्रमणा । कुलटेत्यत्र कुलात् कुलं चाटतीति कुलटा पृषोदरादिः । अभिरूपयत्यात्मानमिति के श्रभिरूपकः । ननु कुमारशब्दस्य पुंलिङ्गस्य निर्देशात् कथं स्त्रीलिङ्गस्य समास ? इत्याह- नामग्रहणे इत्यादि । हि शब्दोऽत्र यस्मादर्थे, यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गऽपि समासस्य 25 सिद्धत्वात् किमर्थं स्त्रीलिङ्गानां श्रमरणादीनां पाठ: ? इत्याह-श्रमरणादीनामित्यादि । कुमारशब्दस्येति 'विशेषणं' [ ३. १. ε६. ] इति समासे हि श्रमणादीनां पूर्वनिपातः स्यात् क्रियाशब्दत्वात् तेषां न कुमारशब्दस्य पूर्वनिपात इत्यर्थः ।। ३. १. ११५ ।।