SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ११५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६६ वाचिनाम्ना सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । भोज्यं च तदुष्णं च भोज्योष्णम्, एवं भोज्यलवणम्, पानीयशीतम्, पानीयोष्णम्, हरणीयपूर्णो घटः, पेयाम्लम्, भृत्यभरणीयः-एकोऽत्र कृत्योहर्थेिऽपरश्च शक्यार्थे, स्तुत्यपटुः पुरुषः । तुल्याख्य,-तुल्यश्वेतः, तुल्यसन्, तुल्यमहान्, सदृशश्वतः, सदृशमहान् । प्रजात्येति किम् ? भोज्यः 5 अोदनः, तुल्यो वैश्यः । सदृशी कन्या वोढव्या । कथं शीतपानीयम् । पानीयशब्दोऽयमौणादिको जलवाची तस्यायं विशेषणसमासः । जात्या समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थं वचनम् ॥ ११४ ।। न्या० स०--कृत्यतुल्या०। आख्यायन्ते आभिरित्याख्याः नामधेयानि । तुल्यस्याख्यास्तुल्याख्याः, अथवा तुल्यमाचक्षते तुल्याख्याः 'दश्चाङ' [ ५. १. ७८. ] इति ङः ।10 आख्याग्रहणाद् ये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते समानसदृशतुल्यप्रभृतयो न तु ये पदान्तरसान्निध्येन यथाऽग्निर्माणवक इति । अत्राऽपि तुल्यता प्रतीयते । परार्थे प्रयुज्यमानाः शब्दा: सादृश्यं गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति । भोज्यं च तदुष्णं चेति । भोजनार्ह भोक्तु वा शक्यमित्यर्थे घ्यरिण। लवरणमिति नन्द्याद्यनो गणपाठात् णत्वं च । भोज्य ओदन इति प्रोदनत्वलक्षणाया जातेरोदनशब्दो वाचकः 115 पीयते तदिति ‘गयहृदय' ३७० (उणादि) इति पानीयम् ।। ३. १. ११४ ।। कुमार श्रमणादिना ॥ ३. १. ११५ ॥ — कुमार इत्येतनामैकार्थं श्रमणादिना नाम्ना सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कुमारी चासौ श्रमणा च कुमारश्रमणा, एवं कुमारप्रवजिता, कुमारश्चासावध्यायकश्च कुमाराध्यायकः,20 कुमारी चासावध्यायिका च कुमाराध्यायिका, एवं कुमाराभिरूपकः, कुमाराभिरूपिका, श्रमणा, प्रव्रजिता, कुलटा, गर्भिणी, तापसी, बन्धकी, दासीएते सप्त स्त्रीलिङ्गा एव । अध्यायक, अभिरूपक, पटु, मृदु, पण्डित, कुशल, चपल, निपुण,-येऽत्र स्त्रीलिङ्गास्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते शेषैस्तूभयलिङ्गः। नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति हि न्यायः25 श्रमणादीनां स्त्रीलिङ्गानां पाठात् । पुंलिङ्ग : पूर्वनिपाते कामचारः-कुमारश्रमणः, तापसकुमारः, कुमारशब्दस्य पूर्वनिपातनियमाथं वचनम् । इह केचित्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy