________________
[पा० १. सू० १०६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४६५
वृन्दारकः, गौश्चासौ वृन्दारकश्च गोवृन्दारकः, एवमश्ववृन्दारकः, गोनागः, अश्वनागः, गोकुञ्जरः, अश्वकुञ्जरः, वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात्पूजावगतिः। पूजायामित्येव ? शोभना सीमा स्फटा यस्य स सुसीमो नागः,-नात्र नागशब्दः पूजां गमयति किंतु जातिमात्रम् । देवदत्तो नाग इव मूर्ख इत्यत्र तूपमानेनापि निन्दैव गम्यते । व्याघ्रादेराकृतिगणत्वात् 5 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' [३. १. १०२.] इत्येव सिद्ध पूजायामेवेति नियमार्थं साम्योक्तावपि विधानार्थं च वचनम्-तेन गोनागो बलवानित्यादि सिद्धम् ।। १०८ ।।
न्या० स०--वृन्दारक०। वृन्दारकादीनामिति ननु वृन्दारकादयो जातिशब्दा न ते सदादिवत् पूजावचनाः कथं तैः समासे पूजा गम्यते ? इत्याह-उपमानादिति ।10 अयमर्थः वृन्दारकादिगताः केचित् पूजानिमित्ता गुणाः स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते तद्गतगुणोक्तावेव चोपमेयताऽपि । यथा संग्रामे विचरत्येष पुरुषः पुरुषो यथा । एवं वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थः । सुसीमो नाग । इति अत्र सुसीमः संज्ञाशब्दस्तस्य नागेनाभिधेयं परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नात्रेत्यादि । इदं तु पूर्वैर्दशितत्वाद्दशितं परमार्थतस्तु नेदं प्रत्युदाहरणम् 115 यदुपाध्यायः सुसीमो नाग इति त्वनागस्य सुसीमत्वाभावात् सुसीमस्य नागविशेषसंज्ञात्वाद् विशेष्यत्वाभावान्न प्रत्युदाहरणमिति । अत एव द्वितीयं प्रत्युदाह्रियते देवदत्तो नाग इव मूर्ख इति । हस्तोव मूर्ख इत्यर्थः । अत्रोपमानेनाऽपि निन्दैव गम्यते न पूजा । कुञ्जरशब्दस्य व्याघ्रादिपाठ प्रयोजनं चिन्त्यम् ।। ३. १. १०८ ।। . कतरकतमौजातिप्रश्ने ॥ ३. १. १०६ ॥
20 कतरकतमावित्येतावेकायौं जातिप्रश्ने गम्यमाने सामर्थ्याज्जातिवाचिना नाम्ना सह समस्येते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कतरश्चासौ कठश्च-कतरकठः, एवं कतरकालापः, कतमकठः, कतमकालापः, कतरगार्यः कतमगार्यः । जातिप्रश्न इति किम् ? गुणक्रियाद्रव्यप्रश्ने न भवतिकतरः शुक्लः, कतमः शुक्लः, कतरो गन्ता, कतमो गन्ता, कतरः कुण्डली, कतमः25 कुण्डली,-'विशेषणं विशेष्येण'-[३. १. ६६.] इत्येव सिद्धे जातिप्रश्न एवेति नियमार्थं वचनम् ॥ १०६ ।।
न्या० स०--कतरक०। कतमगार्ग्य इति कठ इत्यादि चरणं गार्य इत्यादि