________________
४६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते ...
[पा० १. सू० १०७-१०८.]
क्लिशितमक्लिष्टम्, पवितमपूतम्, इग्रहणमर्थभेदाहेतोविकारस्य उपलक्षणम्,तेन शिताशितम्, छिताच्छातमित्यादि न भवति । कथं विनावित्तं त्राणात्रातम् ?"" 'क्तादेशोऽषि' [२. १. ६१. ] इति परे समासे नत्वस्यासत्त्वाद्भविष्यति । सेडिति किम् ? कृताकृतम् । शाताशातम्, छाताच्छातम् । अनिटेति किम् ? अशितानशितेन जीवति,-शिताशितम्, 5 छिताच्छितम् ।। १०६ ।
न्या० स०--सेडना। उपलक्षणमिति तेन सविकारमविकारेण न समस्यते इत्यपि सिद्धम् । कथं विनावित्तमिति ?-नन्वत्र विकारी शब्दसादृश्यासादृश्यकृतो. नान्यकार्यापेक्षा इत्यत्राऽपि निषधः प्राप्नोतीत्याशङ्का ।। ३. १. १०६ ।।
सम्महत्परमोत्तमोत्कृष्ट पूजायाम् ॥ ३. १. १०७ ॥ 10
सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामर्थ्यात्पूज्यमानवचनैर्नामभिः सह समस्यन्ते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । संश्चासौ पुरुषश्च सत्पुरुषः, एवं महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घटः विद्यमान इत्यर्थः, उत्कृष्टो गौः कर्दमादुदृत इत्यर्थः । कथं महाजन: महोदधिः इति वैपुल्यं ह्यत्र गम्यते15 . न पूजा ? बहुलाधिकाराद्भविष्यति पूजायामेवेति नियमार्थं वचनम् पूर्वनिपातव्यवस्थार्थं च, तेन सच्छुक्ल इत्यादौ खञ्जकुण्टादिवदनियमेन पूर्वनिपातो न भवति । परमजरन् महावीरः परममहान् इत्यादौ च स्पर्धे परमिति यथापरं पूर्वनिपातश्च सिद्धो भवति ।। १०७ ।।
न्या० स०--सन्महत्०। परमपुरुष इति अत्र परमं चासौ न चेति कृते अपरम-20 मेव भवति, यतोऽयं योगो 'विशेषणं विशेष्येण' [ ३. १. ६६.] इति सूत्रस्य बाधकः अतो नत्रा सह सर्वोऽपि कर्मधारयो न। उत्तमपुरुष इति उत्ताम्यतीति अचि उत्तम । उद्गतार्थवृत्तेरुच्छब्दाद् वा तमप् । द्रव्यप्रकर्षवृत्तित्वाच्चामभावः ।। ३. १. १०७ ।।
वन्दारकनागकुञ्जरी ॥ ३. १. १०८ ॥
पूजायां गम्यमानायामेभिर्नामभिः सामर्थ्यात्पूज्यमानवचनं नामैकार्थ25 समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वृन्दारक इव