SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४३७ न्या० स०--एकार्थ च०। अत्र बहुव्रीहेरेव ग्रहणमत आह-एक: समानेत्यादि । उपहतबलिय॑क्षीति अत्रोपहतिक्रियाकर्मणा संबध्यमानाया यक्ष्याः संप्रदानत्वमुपहरणस्य दानरूपत्वात् । समानोऽर्थोऽधिकरणमिति यथा आरूढो वानरो यमित्यत्र प्रारूढोऽपि सः वानरोऽपि सः । चित्रगुश्चत्र इति ननु चित्रा गावो यस्येत्यत्र हि देवदत्तःर्थो विशेषणं, चित्रगव्यो विशेष्यं, वृत्तौ च चित्रगव्यो विशेषणं, देवदत्तार्थो विशेष्यं तदेतत् कथमुच्यते ?- 5 विचित्रा हि शब्दशक्तयः इति । नन्वन्यस्य पदस्यार्थाभिधाने चित्रगुश्चैत्र इत्यादावऽनुप्रयोगानुपपत्तिः चैत्रपदस्य हि यावानर्थस्तावान् बहुव्रीहिणा वक्तव्यो, द्वितीयाद्यन्यार्थे तस्य विधानात्ततो गतार्थत्वादनुप्रयोगो न प्राप्नोति, यथा चार्थे द्वंद्वविधानाद् द्वद्वे चकारस्याप्रयोगः । नैष दोषः, चित्रगुशब्देन तद्वन् मात्रसामान्यमुच्यते, न तु विशेष इति तत्रावश्यं10 विशेषणार्थिना विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः । चित्रगुः कः ? चैत्र इति । ननु भवतु चित्रा गावोऽस्येत्येवं सामान्येन समासे कृतेऽन्यपदार्थसामान्यस्य बहुव्रीहिणाऽभिधानाद् विशेषस्याऽनुप्रयोगः । यदा तु चित्रा गावोऽस्य देवदत्तस्येति विशिष्टेऽन्यपदार्थे बहुव्रीहिः क्रियते, तदाऽनुप्रयोगासिद्धिः ? नैवं, यतो नेदमुभयं युगपद् भवति वा समासश्च, लौकिके प्रयोगे वृत्तिवाक्ययोर्युगपत्प्रयोगाभावादेकेनैवार्थस्य प्रत्यायितत्वा-15 दितराप्रयोगात्, तत्र यदा तु वाक्यं न, तदा समासः सामान्येन तदा वृत्तिः शब्दशक्तिस्वभावादन्यपदार्थसामान्यमभिधातु शक्नोति न तु विशेषमिति । वा विकल्पेन नरः वने रमते 'क्वचित्' [५. १. १७१.] इति डे वनरस्तस्यायमिति वा वानरः, अन्तेषु शितीनीति अर्थकथनमिदं विग्रहस्तु अन्तशितीनीति, अवान्तरः समास: कार्यः । सूक्ष्मजटाः केशा इत्यत्र सूक्ष्मा जटा येषां केशानामिति ततस्त्रिपदो बहुव्रीहिः, शोभनं नतं तत:20 सुनतमजिनं वासोऽस्येति बहुव्रीहिः, वृत्तौ तूभयसमासप्रदर्शनाय सामान्येन वाक्यमुक्त, अन्यथैकार्थत्वं न स्यात् । पञ्चनावप्रिय इत्यत्राटि समासान्तात् डीन बाधन्ते स्वार्थकाः क्वचिदित्यतः अकारान्तानाम्नो डीविधानात् समासमध्ये डीन भवतीति न्यासकारः, तहि कथं पूर्वगवीप्रिय इत्यादि ? कश्चित्तु मध्येऽपि ङीप्रत्ययमिच्छति । यथा मे माता तथा मे पितेति. मे मातेत्याद्यर्थकथनमात्रं यावता मे माता मन-25 मातेति तु विग्रहः, ततो यथेति मन्मात्रिति तथेति च त्रयाणां पदानां मत्पित्रा सह समासः (प्राप्तः न च वाच्यं एकार्थत्वाभावान्न समासः), यतो स एव मातृसदृशः स एव मत्पितेत्येकार्थत्वमस्ति । सुस्नातं भोरिति अन्यपदार्थोऽस्ति इति समासः प्राप्नोति, अत्रोच्यते-प्रत्यासत्तेः समस्यमानयोरेव पदयोरन्यपदार्थ समासोऽत्र तु समुदायस्य तस्य वाक्यस्य तात्पर्या नावयवभूतयोः पदयोर्वाच्योऽन्योऽर्थ इति न भवत्येव समासः, समासे हि यथामन्मातृ तथामत्पितृकः स्यात्, द्वितीयाद्यन्यार्थ इति प्रथमा व्यवच्छेद्या तथा वाक्यार्थश्च, तेन वाक्यार्थे न भवति यथा मे माता तथा मे पिता सुस्नातं भोरिति, एतदेवं भाव्यते ।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy