SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४३६ ] बृहद्वृत्ति-लघुन्याससंवलिते एकार्थं चानेकं च ॥। ३. १. २२ ।। एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थम् समानाधिकरणम् एकमनेकं चैकार्थं नामाव्ययं च नाम्ना द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । आरूढो वानरो स आरूढवानरो वृक्षः, ऊढः रथः येन स ऊढरथोऽनड्वान्, उपहृतो बलिरस्यै सा उपहृतबलिर्यक्षी, S भीताः शत्रवो यस्मात् स भीतशत्रुर्नृपः, चित्रा गावो यस्य स चित्रगुश्च ेत्रः, के सब्रह्मचारिणोऽस्य किंसब्रह्मचारी, अर्धं तृतीयमेषामर्धतृतीयाः, वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः, अनेकं च - प्रारूढा बहवो वानरायं स श्रारूढवहुवानरो वृक्षः, ऊढा बहवो रथा अनेन ऊढबहुरथोऽनड्वान् । शोभनाः सूक्ष्मजटाः केशा अस्य सुसूक्ष्मजटकेशः, शोभनं नतर्माजने॒वासोऽस्य 10 सुनताजिनवासाः, संजातानि अन्तेषु शितीनि रन्ध्नाण्यस्मिन् समन्तशितिरन्ध्रः, पञ्च गावो धनमस्य पञ्चगवधनः, पञ्च नाव: प्रिया श्रस्य पञ्चनावप्रियः, मत्ता बहवो मातङ्गा यत्र तन्मत्तबहुमातङ्ग वनम् पञ्च पूला धनमस्य पञ्चपूलधनः, पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, 'नाम नाम्ना० ' [ ३. ११८. ] इति विवक्षितसंख्यत्वादनेकस्य समासो न स्यादित्यनेक - 15 ग्रहणम् । अव्ययं खल्वपि - उच्चैर्मुखमस्य उच्चैर्मुखः, एवं नीचैर्मुखः, - अन्तरङ्गान्यस्यान्तरङ्गः, एवं बहिरङ्गः - कतु कामोऽस्य कर्तुकामः, मनोऽस्य हर्तुमनाः । व्यधिकरणत्वादव्ययस्य न प्राप्नोतीत्यव्ययानुकर्षणार्थश्वकारः। सामानाधिकरण्ये तु 'एकार्थम् ' [ ३. १. २२.] इत्यनेनापि सिध्यति । अस्ति क्षीरमस्या अस्तिक्षीरा गौः अस्तिधना राजधानीत्यादि 120 क्रियावचनत्वे त्वस्त्यादीनां 'नाम नाम्ना' - [ ३ १ १५ ] इत्यादिनैव बहुलवचनात् सिद्धम्)एकार्थग्रहणं किम् ? पञ्चभिर्भुक्तमस्य । द्वितीयाद्यन्यार्थ इत्येव, वृष्टे मेघे गतः, यथा मे माता तथा मे पिता, सुस्नातं भोः । इह कस्मान्न भवति - वृष्टे मेघे गतं पश्य, वहिरङ्गात्र द्वितीयान्ततेति । शब्दे कार्यासंभवादर्थे लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसंख्याविभक्तयस्ता यथा25 स्युरित्येवमर्थम् । बहुलाधिकारात् राजन्वती भूरनेन, प्राग्ग्रामोऽस्मात् पञ्च भुक्तवन्तोऽस्य, इत्यादिषु न भवति ।। २२ । ह [ पा० १. सू० २२. ]
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy