________________
४
]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २.]
प्रणिधेयमिदमित्यर्थः । प्रणिधानं चतुर्धा-पदस्थम्, पिण्डस्थम्, रूपस्थम्, रूपातीतं चेति । पदस्थमहंपदस्थस्य, पिण्डस्थं शरीरस्थस्य, रूपस्थं प्रतिमारूपस्य, रूपातीतं योगिगम्यमहतो ध्यानमिति । एष्वाद्ये द्वे शास्त्रारम्भे संभवतो नोत्तरे द्वे । अनेनात्मनः सर्वतः संभेदः इत्यक्त पदस्थम । तदभिधेयेनेत्यादिना पिण्डस्थमिति । वयमपीति-विशिष्टप्रणिधेय-प्ररिणधानादिगुणप्रकर्षादाऽऽत्मन्युत्कर्षाधानाद् गुणबहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद् 5 वयमिति बहुवचनेन निर्देशः । तात्त्विक इति-तत्त्वमेव “विनयादिभ्य इकरण" [७. २. १६६.] तत्त्वं प्रयोजनमस्येति वा ।। १ ।।
सिद्धि स्यावादात् ॥ १. १. २ ॥
स्याद् इत्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादोऽनेकान्तवादः, नित्या- . नित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । तत: सिद्धिनिष्पत्तिििप्तर्वा10 प्रकृतानां शब्दानां वेदितव्या । एकस्यैव हि ह्रस्व-दीर्घादिविधयोऽनेककारक संनिपातः, सामानाधिकरण्यम्, विशेषण-विशेष्यभावादयश्च स्याद्वादमन्तरेण नोपपद्यन्ते । सवार्षदत्वाच्च शब्दानुशासनस्य सकलदर्शनसमूहात्मकस्याद्वादसमाश्रयणमतिरमणीयम् । यदवोचाम स्तुतिः---
अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः । नयानशेषानावशेषमिच्छन् न पक्षपातो समयस्तथा ते ॥ 2 ॥
[अन्ययोगव्यवच्छेदद्वात्रिंशिका-श्लो० ३०.] स्तुतिकारोऽप्याह - नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इवहधातवः ।
भवन्त्यभिप्रेतफला यतस्ततो भवन्तपार्याः प्रणता हितैषिणः ।। 3 ।। इति । 20 [ श्रीसमन्तभद्राचार्यकृत-बृहत्स्वयम्भूस्तोत्रावल्यां श्रीविमलनाथस्तोत्रम्-श्लो० ६५. ]
अथवा 'वादात्' विविक्तशब्दप्रयोगात् सिद्धिः' सम्यग्ज्ञानं तद्वारेण च निःश्रेयसं 'स्याद्' भवेद् इति शब्दानुशासनमिदमारभ्यत इत्यभिधेपप्रपोजनपरतयाऽपीदं व्याख्येयम् ॥ २॥
15
न्या० स०-पिद्धिरित्यादि-लोके प्रसिद्धसाधूत्वानां शब्दानामन्वाख्यानार्थमिदं25 शब्दानुशासनमारभ्यते । अन्वाख्यानं च शब्दानां प्रकृत्यादिविभागेन सामान्य-विशेषवता लक्षणेन व्युत्पादनम् । तच्च शब्दार्थसंबन्धमन्तरेण न संभवति । शब्दार्थसंबन्धसिद्धिश्च स्याद्वादाधीना इत्यत अाह-सिद्धिः स्याद दात् । दशधा सूत्राणि संज्ञा-१ परिभाषा-२ ऽधिकार-३ विधि-४ प्रतिषेध-५ नियम-६ विकल्प-७ समुच्चया-८ ऽतिदेशा-६ ऽनुवाद-१०