________________
[पा० ४. सू० ६६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ४०७
अतिवामोरुः । गौरणस्येत्येव-सुगौः, किंगौः, राजकुमारी, परमब्रह्मबन्धूः; नक्षत्रमाला। अक्विप इत्येव-गामिच्छति क्यन्, गव्यतीति क्विप्-गौः, ततः प्रिया गौः अस्य प्रियगौः; कुमारीमिच्छति क्यन्, क्विप्-कुमारी, ततः प्रियश्चासौ कुमारी च-प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्रीः, अति लक्ष्मीः, अतिश्री:, अतिभ्र : । अन्त इति किम् ? गोकुलम्, कुमारीप्रियः, 5 कन्यापुरम् ; अत्र गोशब्दो याद्यन्तं च समासार्थे न्यग्भूतत्वाद् गौणम् । सुगोप्रियः, राजकुमारीप्रियः; एवं-पञ्चशालाप्रिय इत्यादौ तु यद्यपि गोशब्दान्तं याद्यन्तं च नामान्यपदार्थे गुणीभूतं तथापि न तदपेक्षयाऽन्त्यत्वम्, यदपेक्षया चान्त्यत्वं न तदपेक्षया गौणत्वमिति न भवति । ननु च ङ्यादीनां प्रत्ययत्वात् “प्रत्ययः प्रकृत्यादेः" [७. ४. ११५.] इति यस्मात् स विधि-10 स्तदादेर्ग्रहणम्, इतीह न प्राप्नोति-अतिराजकुमारिः, अतिरत्नमाल इति, सत्यम्--“गौणो ड्यादिः" [७. ४. ११६.] इति मुख्ये स्त्रीप्रत्ययेऽयं न्यायो नोपतिष्ठते, राजकुमारी-रत्नमालाशब्दयोश्च स्त्रीप्रत्ययान्तयोर्मुख्यत्वमेव, तेनङ्यादिप्रत्ययान्तमात्रं विधानानपेक्षमिह गृह्यते । इह कस्मान्न भवति ? - बहुकुमारीकः, बहुब्रह्मबन्धूक इति; परत्वात् प्रथममेव कचि 15 कृतेऽन्त्यत्वाभावात् । अनंशिसमासेयोबहुव्रीहाविति किम् ? अर्धं पिप्पल्या:अर्धपिप्पली, एवं--तुर्यभिक्षा, बह व्यः श्रेयस्यो यस्य स-बहुश्रेयसी पुरुषः, एवं-- प्रियश्रेयसी ।। ६६ ॥
न्या० स०-गोश्चान्ते। अंशिसमासवर्जनात् समासस्यान्त एव ह्रस्वः । नन्वर्द्धपिप्पलीति-'अनंशिसमासेयोबहुव्रीहौ' इति व्यावृत्तौ किमिति दर्शितं ? यतो20 ह्रस्वत्वेऽपि कृतेऽपि “परलिङ्गो द्वन्द्वोंऽशी." [ लिङ्गानुशासने ] इति वचनात् पिप्पलीलिङ्ग "इतोऽक्त्यर्थात्" [२. ४. ३२.] इति ड्यां रूपं तथैव, सत्यम्-'इतोक्त्यर्थात्" [२. ४. ३२. ] इति वैकल्पिको डीः, ततोऽर्द्धपिप्पलिः, अर्धपिप्पलीति रूपद्वयं स्यात्, इष्यते चार्द्धपिप्पलीत्येव । ननु तहि-तुर्यभिक्षेति किमर्थं दर्शितम् ? यतोऽत्रापि “परलिङ्गो द्वन्द्वोंशी०" इति वचनाद् भिक्षे त्युत्तरपदस्य स्त्रीत्वे ह्रस्वत्वे कृतेऽपि पुनरापि सति25 'तुर्यभिक्षा' इत्येव भवति, सत्यम्-तुर्यभिक्षेति सिध्यत्येव, परंतु तुर्यभिक्षामतिकान्तो यः सोऽतितुर्य भिक्ष इति ह्रस्वत्वं स्यात्, यतस्तुर्यभिक्षेति उत्तरपदलिङ्गत्वे पुनरापि तुर्यभिक्षेत्याबन्तः, “प्रत्ययः प्रकृत्यादेः" [७. ४. ११५. ] इति न्यायात्, वर्जने च सति भि:वावन्तः, ततः पूर्वपदार्थप्रधानत्वादंशिसमासस्य “गौरगो ड्यादिः" [२. ४. ६५. ] इति