SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४०६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० ६६.] द्विपङ्गः, त्रिकरभोरुः; कुवल्या विकारः फलं-कुवलम्, एवं-बदरम्, आमलकम् । यादेरिति किम् ? पञ्चभिः प्रेयोभिः क्रीतः-पञ्चप्रेयान् । गौणस्येति किम् ? अवन्तेरपत्यं स्त्री-अवन्ती, एवं कुन्ती, कुरू:; अत्र हि तद्धितलुकि कृते जातौ ङ ङौ इत्यगौणत्वम् । अक्विप इति किम् ? कुमारीमिच्छति क्यन्, कुमारीयतीति क्विप्, तस्य लोपे-कुमारी, ततः पञ्च 5 कुमार्यो देवता अस्य-पञ्चकुमारी; एवं-पञ्चेन्द्राणी, पञ्चयुवती। तद्धितलुकीति किम् ? औपगवीत्वम् । कथं हरीतक्याः फलं विकारोऽवयवो वा हरीतकी ?, एवं कोशातकीत्यादि ?; अत्र लुबन्तस्य स्त्रीत्वात् पुनगौरादिलक्षणो डीः। अगोणी-सूच्योरिति किम् ? पञ्चभिर्गोणीभिः क्रीत:पञ्चगोरिणः, दशगोणिः, पञ्चसूचिः, दशसूचिः ।। ६५ ।। 10 न्या० स०--डयादेगौरण। लुगिति लुप एव उपलक्षणं, तेनाऽगोमती गोमती भूता-गोमतीभूतेत्यत्र च्वेरभावेऽपि लुबभावाद् डीनिवृत्तेरभावः । पुनगौरादिलक्षणो ङोरिति, एवं-विदारी मूलम्, आमली फलमित्यादि । तथा विशाखाभिश्चन्द्रयुक्ताभिर्युक्तः कालः “चन्द्रयुक्तात्०" [ ६. २. ६. ] इत्यणो लुपि ड्यादिनिवृत्तौ पुनरापि विशाखा काल इति। [द्विस्त्रः] द्वे स्त्रियौ देवते अस्य, अण , "द्विगोरन." [६. १. २४.] 15 लक। पञ्चसख इति यदा सखिशब्दाद ड्यां पञ्चभिः सखीभिः क्रीत इति वाक्ये कृते. इकणो लोपेऽनेन ङीनिवृत्तौ तदा "राजन्-सखे:०" [ ७. ३. १०६. ] इति समासान्तः; यदा तु सखशब्दात् “नारी सखी." [२. ४. ७६.] इति डीस्तदा डीनिवृत्तौ सिद्धमेव ।। कुवल-बदराभ्यां गौरादिङयन्ताभ्यां हेमाद्याञ् “प्राण्यौषधि०" [ ६. २. ३१. ] इत्यण यथासंख्येन, आमलकात् "दोरप्राणिनः" [६. २. ४६.] इति मयट “फले" [ ६.२.५८. ]20 लुप । तद्धितलुकि कृते इत्यत्र पञ्चभिर्धीवरीभिः क्रीता इतीकणि लुकि "यादेः" [ २.४.६५. ] इति उयभावे पूनङाँ प्रिया पञ्च धीवर्यो यस्येत्यपि कृते "ड्यादे:०" [ २. ४. ६५. ] इति ङ्यभावः-प्रियपञ्चधीवा ।। २. ४. ६५ ।। । गोश्चान्ते ह्रस्वोsनंशिसमासेयोबहुव्रीहौ ॥ २. ४. ६६ ॥ गौणस्याक्विपो गोशब्दस्य याद्यन्तस्य च नाम्नोऽन्ते वर्तमानस्य25 ह्रस्वो भवति, न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा भवति । चित्रा गावोऽस्य-चित्रगुः, शबलगुः, पञ्चभिर्गोभिः क्रीतः-पञ्चगुः, शतगुः, कौशाम्ब्या निर्गतो-निष्कौशाम्बिः, एवं-निर्वाराणसिः, निःश्रेयसिः; खट्वामतिक्रान्तोऽतिखट्वः, प्रिया खट्वा यस्य स प्रियखट्वः, अतिब्रह्मबन्धुः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy