SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ८१-८३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६६ यथासंभवं णिज् रिणग् वा, पश्चात् शतृ, ततोऽपत्यार्थेऽण । बैल्वयत इत्यत्र बिल्वमाचष्टे "रिणज् बहुलम्" [ ३. ४. ४२. ] इति णिचि शत्रादौ च । व्यस्यादेशत्वादिति-पत्र क्रौण्ड्यादीनामिति षष्ठीनिर्देशादन्तस्येत्यधिकाराच्च ष्य इत्यादेशोऽयम्, तेन यत् सिद्ध त दर्शयति ।। २.४. ८० ।। भोज-सूतयोः क्षत्रिया-युवत्योः ॥ २. ४. ८१ ॥ भोज-सूतशब्दयोरन्तस्य क्षत्रिया-युवत्योरभिधेययोः स्त्रियां ष्यादेशो भवति । भोज्या-भोजवंशजा क्षत्रिया, सूत्या--प्राप्तयौवना मानुषीत्यर्थः, अन्ये सूतसंबन्धिनी युवतिः--सूत्या, न सर्वेत्याहुः । क्षत्रिया-युवत्योरिति किम् ? भोजा, सूता ।। ८१ ।। __ न्या० स०--भोज-सूत० । “जाते:०" [ २. ४. ५४. ] इति ङीप्रत्ययापवादोऽनेन 10 ष्यादेशः। मूलोदाहरणे सूतस्तरुण उच्यते। सूतसम्बन्धिनी युवतिरिति-क्षत्रियाद् ब्राह्मण्यां जातः सूतः, प्राजनकर्मणि प्राजितृत्वे सूतशब्दः, तस्य कर्मणः सम्बन्धिनी तत्की सूत्येति, कोऽर्थः ? रथप्राजित्री ।। २. ४. ८१ ॥ दैवज्ञि-शौचिवृक्षि-सात्यमुनि काण्ठेविद्या ॥२. ४. ८२ ॥15 एषामिञन्तानां स्त्रियामन्तस्य ध्यादेशो वा भवति, इअन्तमात्रनिर्देशात् पौत्रादौ प्राप्ते प्रथमापत्ये त्वप्राप्ते विभाषा। देवयज्या, दैवयज्ञी; शौचिवृक्ष्या, शौचिवृक्षी; सात्यमुग्या, सात्यमुग्री; काण्ठेविद्धया, काण्ठेविद्धी ॥ ८२ ॥ __न्या० स०--दैवत्रज्ञि । देवयज्येति-देव एव यज्ञः पूजनीयो यस्य स तथा ।20 शौचिवृक्ष्येत्यत्र स्वमते शुचिर्वृक्षोऽस्येति, उद्योतकरस्तु-शुचेः “नाम्युपान्त्य०" [५. १. ५४. ] इति के-शुचो वृक्षोऽस्येत्याह। सात्यमुग्येति-सत्यमुग्रं यस्य असौ सत्यमुग्रः, अत एव निर्देशाद् मोऽन्त: मान्तमव्ययं वा, सत्यं मुञ्चति क्विपि सत्यमुचं रातीति वा डे । काण्ठेविद्धयति-यदा कण्ठे विध्यते स्म तदा “तत्पुरुषे कृति" [३. २. २०.] इति अलुप्, यदा तु कण्ठे विद्धमनेन तदा “अमूर्द्धमस्तकात्" [३. २. २२.] इत्यलुप् ॥ २. ४. ८२. ।। 25 व्या पुत्र-पत्योः केवलयोरीच तत्पुरुषे ॥ २. ४. ८३ ॥ मुख्य आबन्तः ष्यः पुत्र-पतिशब्दयोः केवलयोः परयोस्तत्पुरुषे समासे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy