________________
३६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० २०.]
पक्षिविशेषार्थोऽत्र द्रष्टव्यः, वक्रार्थस्तु शौरणादौ द्रष्टव्यः । उदवड इति-"वड आग्रहणे" सौत्रो धातः, उदकं वडति इति उदवड: पानीयहारिणीवाचक: कृमिजातिविशेषो वा । चण्ड इति-गौरीवाचकश्चण्डशब्दोऽत्र द्रष्टव्यः, कोपनावाचकस्तु शोरणादौ द्रष्टव्यः । उमाया भङ्ग इव भङ्गो यस्याः । हरी ओषधिस्तस्या इव कणा यस्याः, हरयः सुवर्णवर्णाः कणा यस्या वा। बटरः क्षुद्रजन्तुः, अधिकारं कारयति या स्त्री। करणे इति-5 करणकारके इत्यर्थः। "ई। " || २.४. १६ ॥
अणयेकण-नञ् स्नर टिताम् ॥ २. ४. २० ॥
अणादिप्रत्ययानां योऽकारस्तदन्तानाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां . वाच्यायां स्त्रियां वर्तमानाद् ङीर्भवति । अण-उपगोरपत्यमौपगवी, तपोऽस्या अस्तीति तापसी, कुम्भकारी, काण्डलावी याति; अञ्-उत्सस्यापत्यमौत्सी,10 बिदस्यापत्यं पौत्री-बैदी, छत्र-चुरा-तपःशीलेति छत्रादित्वादजि-छात्री, चौरी, तापसी; एयण -सुपा अपत्यं सौपर्णेयी, वैनतेयी; एयच्-शिलायास्तुल्या शिलेयी, एयञ्-शैलेयी, "शिलाया एयच्च" [७. १. ११३.], निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण -अक्षर्दीव्यति आक्षिकी, प्रस्थेन क्रीता प्रास्थिकी; नञ्-स्त्रिया अपत्यमियं वा स्त्रैणी; स्नञ्-पुंसोऽपत्यमियं वा पौंस्नी; टित्-15 जानु ऊर्ध्वं प्रमाणमस्या जानुदघ्नी, जानुद्वयसी, जानुमात्री, पञ्च अवयवा यस्याः पञ्चतयी, एवं द्वयी, त्रयी; शक्तिरायुधमस्याः शाक्तीकी, एवं याष्टीकी; ह्यो भवा ह्यस्तनी, एवमद्यतनी, श्वस्तनी, चिरन्तनी, परुत्तनी; भूतपूर्वा भिक्षुः-भिक्षुचरी, सक्त धानी, गायनी, कुरुचरी; प्रत्ययसाहचर्यादागमटितो न भवति-पठिता विद्या। शुनिन्धयी, स्तनन्धयीत्यादौ तु धातोष्टि-20 करणस्यानन्यार्थत्वादटितोऽपि भवति । अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् ? पाणिनिना प्रोक्त पाणिनीयम्, “तदधीते०" [६. २. ११७.] इत्यण, तस्य "प्रोक्तात्" [६. २. १२६.] इति लोपे-पाणिनीया कन्येति ङीर्यथा मा भूत् । प्रत्यासत्त्या तैरेवारणादिभिः स्त्रिया विशेषणं किम् ? गौतमेन प्रोक्ता नीतिगौतमीति, ताम् “अधीते" [६. २. ११७.] इत्यण ,25 तस्य "प्रोक्तात्" [६. २. १२६.] इति लोपे “ड्यादे०" [२. ४. ६५.] इत्यादिना डीलोपे च ङीर्यथा न स्यात्-गौतमा कन्या, अस्त्यत्राणोऽकारो न तु तदभिधेया नीतिलक्षणा स्त्रीप्रत्ययार्हा, यदभिधेया तु कन्यालक्षणा स्त्रीप्रत्ययारे