SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ७-८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५६ न्या० स०--वा पादः। इह न भवतीति-अथ “पदिच् गतौ” इत्यतो ण्यन्तात् क्विपि कृते यत् पादिति रूपं तदिह कस्मान्न विज्ञायते ? उच्यते-पादयते: क्विबन्तस्य प्रयोगादर्शन मिति; प्रयोगेऽपि वा क्रियाकारकसम्बन्धमात्रं पाद: क्विबन्तात् प्रतीयते न तु विशिष्टार्थप्रतीति:, द्विपाच्छब्दश्च विशिष्टार्थावयव इति ।। २. ४. ६ ॥ ऊहनः ॥ २. ४. ७ ॥ ऊधन्निति कृतनकारादेशस्योधसो ग्रहणम्, तदन्तान्नाम्नो बहुव्रीहेः स्त्रियां ङीर्भवति । कुण्डोध्नी, घटोनी, महोध्नी; पीवरोध्नी। “अनो वा" [२. ४. ११.] इति विकल्पे प्राप्ते वचनम् । समासान्तविधौ ‘ऊध्न्' इत्यादेशे नान्तत्वादेव ङीः सिध्यति, किन्तु पञ्चभिः कुण्डोनीभिः क्रीत इतीकरिण तल्लुपि च 'पञ्चकुण्डोध्न्' इति प्रकृतेः सौ पञ्चकुण्डोदिति स्यात् पञ्च-10 कुण्डोधेति चेष्यते ।। ७ ।। न्या० स०-ऊध्नः। ऊध्न् इत्यादेश इति-अयमर्थ:-यदि समासान्तविधौ ऊध्निस्यादेशं न कुर्यात् किन्तु न इत्येव ततः "अनो वा" [ २. ४. ११. ] इत्यनेन विकल्पः स्यात्, न तु “स्त्रियां नृत०" [ २. ४. १. ] इत्यनेन नित्यं ङीरिति । पञ्चकुण्डोधेतिननु लुपः पित्त्वात् “क्यङमानि०" [ ३. २. ५०. ] इत्यनेन पुवद्भावः कथं न भवति ? 15 उच्यते-"कौण्डिन्यागस्त्ययो:०” [६. १. १२७. ] इत्यत्र कौण्डिन्यनिर्देशान्न भवति; यद्वा "स्त्रियामूधसो न्” [७. ३. १६६.] इत्यत्र स्त्रियां विषये व्याख्यानात्, विषयव्याख्यानं हि निनिमित्तत्वार्थम्, ततो यदि वद्भावोऽभिप्रेत: स्यात् तदा ड्यामूधसोऽनिति सनिमित्तकमेव कुर्यात् ; ननु ङ्यामिति कृते ङीरपि कथम् ? उच्यते-तदा गौरादौ पठ्येत · ऊधस्शब्दः; यद्वा उधस इति सूत्र क्रियेत । ननु ङ्यामिति कृते डीरपि कथं ? निमित्तक-20 व्याख्यानमेव क्रियतां, तस्मिन्नपि न किञ्चिद् विनङ क्ष्यति, निमित्तव्याख्याने हि "मूल्यैः क्रीते" [६. ४. १५०.] इकरिण तल्लुपि “यादेः०" [ २. ४. ६५. ] इति ङीनिवृत्ती तन्निमित्तकसमासान्तस्यापि निवृत्तिः प्राप्नोति, ततश्च पञ्चकुण्डोधा इति विसर्गान्तं रूपं प्राप्नुयादिति समासान्तविधौ सनिमित्तक आदेशो नाकारि ।। २. ४.७ ।। अशिशोः ॥ २. ४. ८ ॥ 25 अशिशु इत्येतस्माद् बहुव्रीहेः स्त्रियां ङीर्भवति । अविद्यमानः शिशुरस्या अशिश्वी । बहुव्रीहेरित्येव-न शिशुः-अशिशुः ।। ८ ।। न्या० स०–अशिशोः। ननु ऊधन्शब्दस्याशिशुशब्दस्य च बहुव्रीहिविशेषणत्वेन
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy