SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० १०५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५५ "ऋ-सृ-तृ.-व्या-लिह्यवि०" [ उणा० १७१. ] इत्यडे। पुरोडाश इति-पुरो दाश्यते घत्रि "पृषोदरादयः" [ ३. २. १५५.] । वडे: सौत्रात् “कुलिकनि०" [ उणा० ५३५. ] इति किशे-वडिशम्। पुलिनमिति-"पुल महत्त्वे" "वृजि-महि०" [उणा० २८३.] किदिने-पुलिनम्। निर्देशस्य समानत्वात् क्वचिल्लकारस्य डकारोऽपि-पुडिनम् । पीडेति"भीषि-भूषि०" [ ५. २. १०९. ] इत्यादिना बहुवचनादङ । पाण्डुरिति-"पनेर्दीर्घश्च" 5 [ उणा० ७६६. ] इति हुप्रत्ययः। कण्डुरिति-“कषेण्डद्वौ च षः" [ उणा० ८३१. ] इति । डामर इति-'दमेरिणद्वा दश्च ड:" [ उणा० ४०२.] | डीन इति-डीङच "सूयत्याद्योदितः" [ ४. २. ७०. ] इति नकारे "डीयश्व्यैदितः" [ ४. ४. ६१. ] इति इनिषेधे-डोनः। डुण्डुभ इति-डुण्डुशब्देन भातीति डुण्डुभः । डिण्डिम-शब्दमततीति "क्वचित्" [ ५. १. १७१. ] इति डे-डिण्डिमः, अथवा "डिभेः कित्" [ उणा० ३५६. ]10 ।। २. ३. १०४. ।। जपादीनां पो वः ॥ २. ३. १०५॥ जपादिशब्दसंबन्धिनः पकारस्य वकारदेशो वा भवति । जवा, जपा; पारावतः, पारापतः त्रिविष्टपम्, त्रिपिष्टपम्; पारावारः, पारापारः; कवाटः, कपाटः; विष्टवम्, विष्टपम् ; कवलः, कपलः; अवाची, अपाची। जपादयः15 प्रयोगतोऽनुसर्तव्याः ॥ १०५ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः ।। २ । ३ ।। मूलराजासिधारायां, निमग्ना ये महीभुजः । उन्मज्जन्तो विलोक्यन्ते, स्वर्गगङ्गाजलेषु ते ।। २ । ३ । ३ ।। 20 न्या० स०-जपादीनां पो वः। जपति जपतः (?) सो "व्यध-जप-मद्भ्यः " [ ५. ३. ४७. ] इत्यल् । पारापत इति-पराद् विप्रकृष्टादापततीति क्विपि परापत्, तस्यापत्यम् । त्रिविष्टपमिति-विष्लु की “विष्टपोलप." [ उणा० ३०७. ] इति तृतीयं विष्टपं, प्राच्या स्त्रिपिष्टपमिति पठन्ति । पारापार इति-पारयतीति पारः, न पारोऽपारः, अपारः पारोऽस्य पारापारः, राजदन्तादित्वात् पारस्य प्राग् निपातः । कपाट इति-25 "कपुङ चलने" "कपाटविराट०" [ उणा० १४८. ] इति निपातः । विष्टपमिति-विष्टं पातीति "क्वचित्" [ ५. १. १७१. ] इति डे । कवल इति-के-तालुनि पलति ।। २.३.१०५॥ इति द्वितीयस्याध्यायस्य तृतीयः पादः ॥२॥ ३ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy