________________
३५४ ]
बृहद्वृत्ति-लधुन्याससंवलिते
[पा० ३. सू० १०४.]
अङ्गुलिः, अगुरिः; पुलुषः, पुरुषः; तलुनः, तरुणः; सलिलम्, सरिरम् ; अलम्, अरम्; मूलम्, मूरम्; कलीलः, करीरः; कल्म, कर्म ; मुकुलम्, . मुकुरम् ; पांसुलः, पांसुरः; लेखा, रेखा; लिक्षा, रिक्षा; लोहितम्, रोहितम्, इत्यादि । अर्थभेदेऽपि-इला भूमिः, इरा अमृतम् ; तल्पलो गजपृष्ठकदेशः, तर्परः पशूनां कण्ठघण्टः; कलभो बालहस्ती, करभ उष्ट्रः; शलभः पतङ्गः, 5 शरभोऽष्टापदः; कालो वर्णः, कारो रक्षानिर्वेशः; वालः केशः; वारः क्रियाभ्यावृत्तिः; लघुरपचितपरिणामः, रघुः राजा; गलः प्राण्यङ्गम्, गरो विषम् ; एवं-मुद्गल-मुद्गर, मण्डल-मण्डर; कन्दल-कन्दरादयोऽपि द्रष्टव्याः ।। ऐकाhऽपि दृश्यते-गलं गरं च; बडिशम्, बलिशम् ; डश्च लः; ऋफिलः, ऋफिडः; वलभी, वडभी; चूला, चूडा; इला, इडा; व्यालः, व्याड:; 10 पुरोलाशः, पुरोडाशः; षोलशः, षोडशः; बलिशम्, बडिशम्; पुलिनम्, पुडिनम्, पीला, पीडा। यथादर्शनमन्येऽपि ऋफिडादौ द्रष्टव्याः । संयुक्तस्य आदेश्च न दृश्यते-पाण्डुः, कण्डूः, डामरः, डीनः, डुण्डुभः; डिण्डिमः ।। १०४ ।।
न्या० स०--ऋफिडादीनां० । अतेर्बाहुलकात् फिडक्प्रत्यये-ऋफिडः । अर्तेरेव 1 5 .. क्त कुत्सादौ च के ऋतकः, ऋतं सत्यं कायति "प्रातो डो०" [ ५. १. ७६. ] इति डे वा। कं-सुखं परं यस्यां “शेषाद् वा" [७. ३. १७५.] इति कचि आपि इत्वेकपरिका। तपौच "सणीकास्तीका०" [उणा० ५०.1 इति-तर्परीकं गन्धद्रव्यविशेषः । कपिरशब्दात् के-कपिरकं, कम्पयतीति वा “कीचक०" [उणा० ३३.] इति निपातः । रोमाणीति-रुवन्तीति मन् । अगुरि इति-"अगु गतौ” “मस्यसि०" [उणा० ६६६.] 20 इति डरौ। नपूर्वाद् राते: “गमिजनि०" [उणा० ६३७.] इति बहुलवचनाड्डित्यमि अरम्। मूरमिति-"मूङ बन्धने" "ऋज्यजि०" [उणा० ३८८.] इति किति रे । करीर इति-“कृ श.पू.." [ उणा० ४१८. ] इति ईरे-करीरः । पांसुर इति-"मध्वादिभ्यो रः" [ ७. २. २६. ] । लिखेः समानार्थाद् रिखो भिदाद्यङि-रेखा। लिक्षेतिरिषेः “ऋजिऋषि०" [ उणा० ३८८. ] इति किति से। गर इति-गिरति प्राणान्25 लिहाद्यचि। मण्डर इति-मण्डे: “जठर०" [उणा० ४०३.] इति अरे। कन्दर इति"कदुङ वैक्लव्ये" "ऋषि-चटि०" [उणा० ३६७.] इत्यरे। ऐकार्थ्य इति-एकोऽभिन्नोऽर्थो ययोस्तयोर्भावे । वलभीति-वडेः सौत्रात् "कृ -ग श -शलि" [उणा० ३२६.] इत्यभे गौरादिङयां च-वडभी। चुडेति-चुदण् णिजन्ताद् भिदाद्यङि निपातः । इडेति-ईड्यते-स्तूयते प्रात्माऽस्यां "म्लेच्छीड०" [ उणा० ३. ] इति । व्याड इति-व्यंग्30