________________
३४२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ८०-८१.]
ग्रहणाशङ्कापि कुतः ? उच्यते-"मिग्मीगोऽखलचलि" [४. २. ८.] इत्यनेनात्वविधानात् । नानुबन्धार्थ इति-यया रीत्या धातुपाठे माङित्यपाठि तया रीत्या यदि सूत्रेऽपि क्रियेत तदाऽनुबन्धनार्थः स्यात्, अत्र तु विशेषणं-ङकारेण उपलक्षितो मा-इति । ननु “सप्तम्या निर्दिष्टे पूर्वस्य" [७. ४. १०५. ] तच्चानन्तरस्य न व्यवहितस्येति न्यायात् प्रण्यास्यतीत्यादौ प्राङा व्यवधाने न प्राप्नोतीत्याह-प्राङा व्यवधानेऽपीति- 5 अयमर्थ:-"पदेऽन्तरे०" [२. ३. ६३.] इति णत्वनिषेधकसूत्रे प्राडो वर्जनात् आङा व्यवधानेऽपि भवति ।। २. ३.७६ ।।
अक खाद्यषान्ते पाठे वा ॥ २. ३.८० ॥
पाठे-धातूपदेशे ककार-खकारादिः षकारान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्य ने कारस्य 10 णो वा भवति । प्रणिपचति, प्रनिपचति; परिणिपति, परिनिपचति; प्रणिभिनत्ति, प्रनिभिनत्ति; परिणिभिनत्ति, परिनिभिनत्ति; प्रणिपापच्यते, प्रनिपापच्यते; प्रणिपापचीति, प्रनिपापचीति ; प्रणिपिपक्षति, प्रनिपिपक्षति; प्रण्यपीपचत्, प्रन्यपीपचत्; प्रणिष्टभ्नाति, प्रनिष्टभ्नाति; स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् । पूर्वसूत्रारम्भसामर्थ्यात् पूर्वसूत्र-15 विभक्तोऽस्य विषयः, तेन 'प्रणिमयते, प्ररिणदयते' इत्यादौ पूर्वेण नित्यमेव णत्वम् । अक-खादोति किम् ? प्रनिकरोति, प्रनिकिरति, प्रनिखनति, प्रनिखादति । अषान्त इति किम् ? प्रनिद्वेष्टि, प्रनिपिनष्टि । पाठ इति किम् ? इह च प्रतिषेधो यथा स्यात्-प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति । इह च मा भूत्-प्रणिवेष्टा, प्रनिवेष्टा; परिणदेष्टा, प्रनिदेष्टा; यङ्लुपि नेच्छन्त्येके-20 प्रनिपापचीति, प्रनिसासत्ति इत्यादि ।। ८० ।।
न्या० स०--अकखा० । अत्राकखादिषान्त इति सिद्धे नवयं सुखार्थम्, नद्वये हि सति कखादेः षान्तस्य च वर्जनं प्रतीयते, एकस्मिस्तु कखादे: किंविशिष्टस्य षान्तस्येति प्रतीतिः स्यात् ; असंभवान्न भविष्यतीति न च वाच्यम्, "कषशिष" इत्यादावेवंविधस्यापि दर्शनात् । सौत्रेषु पाठादिति-ननु स्तम्भेर्धातुष्वपाठात् कथं पाठविषयत्वम् ? उच्यते-25 सौत्राणां सूत्रमेव धातूपदेशः । प्रनिवेष्टेति-"विशंत् प्रवेशने” इत्यस्य रूपम् ।। २. ३.८० ।।
दिद्वत्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥२. ३. ८१ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्यानितेर्नकारस्य द्वित्वे