________________
३४० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ७८.]
संज्ञा भवन्ति इतीह न भवति-प्रगता नायका यस्मात् प्रणायको देश इति । रण-हिनु-मीना-ऽऽनेरिति किम् ? प्रनृत्यति, अणोपदेशत्वात् गत्वं न भवति । अलचटतवर्गशसान्तर इत्येव-प्रतिनमति, प्रददानि । परिनदनमित्यत्र तु क्षुभ्नादित्वात् न भवति ।। ७७ ।।
न्या० स०--अदुरुप० । हिनु-मीना-ऽऽनिग्रहणात् समास्सयासम्भवात् पूर्वपदस्था- 5 दित्यस्य निवृत्तावविशेषेणोपसर्गाण्णत्वविधिः । हिनु-मीनाग्रहणे इति-अथ 'प्रहिणोति प्रमीणीते' इत्यत्र गुणे इकारे च कृते हिनु-मीनेत्येतद्रूपविरहात् “स्थानीवा०" [७. ४. १०६.] इत्यस्याप्यसद्विधौ स्वरस्य स्थानिवद्भावप्रतिषेधात कथं गत्वमित्याह-विक्रतस्यापोति। प्रवपानि मांसानीति-उप्यत इति वपा भिदाद्यङ । आनीत्यर्थवत इति
येन धातुना युक्त०* इति न्यायो धातोर्ज्ञातव्यो न नाम्न इति नाम्न उपसर्गत्वं 10 भवत्येव, प्रवपानीति समुदायस्यार्थवत्त्वादानीत्यस्य पृथगर्थाभावादनर्थकत्वम्, उपसर्गत्वाभावाद् वा, अत एव प्रवृद्धा इति विग्रहो वृत्तौ दर्शितः, नद्यत्रानिना सहोपसर्गयोगः । यद्येवं प्रयाणीत्यत्रापि न प्राप्नोति, नह्यत्रापि आनि प्रति उपसर्गयोगः, किन्तु धातुप्रति, नैवम-योगस्यार्थद्वारकत्वात् तत्र प्रयोगविषयस्यैव धातोराश्रयणात् तस्य च न क्वचिदसंपृष्टस्य भावात् समुदायस्थस्यैवाश्रितत्वादित्यानिशब्दान्तं समुदायं प्रति य उपसर्गस्तस्मात्15 परस्य समुदायस्य य आनितस्तस्य गत्वमिति सूत्रार्थसंप्रत्ययाददोषः। एवं रणकारेऽपि द्रष्टव्यम्, अन्यथा रणकारमात्र प्रत्यूपसर्गत्वाभावाण्णत्वासिद्धिः स्यादिति ।। २. ३.७७ ।।
नशा शः ॥२. ३. ७८ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रंषवर्णात् परस्य नशेः शकारान्तस्य संबन्धिनो नकारस्य णो भवति । प्रणश्यति, परिणश्यति; प्रणाशः,20 परिणाशः; अन्तर्णश्यति । श इति किम् ? प्रनष्टः, परिनष्टः; प्रनक्ष्यति; परिनक्ष्यति । नशेरणोपदेशात् पूर्वेणासिद्धे विध्यर्थमिदम् ।। ७८ ।।
न्या० स०--नशःशः। प्रनष्ट इति-अत्र “नशो धुटि" [ ४. ४. १०६. ] इति नागमस्य "नो व्यञ्जनस्य०" [ ४. २. ४५. ] इति लुक् । पुनझ्यतीत्यादि-अत्र परेऽसदित्यन्तरङ्गत्वात् पूर्वं कृतमपि णत्वं षत्वादावसत्त्वात् षत्वे कृतेऽप्येकदेशविकृस्यानन्यत्वात्25 प्राप्तमपि श इति वचनात् साक्षाच्छकारान्तत्वाभावानिवर्त्यते । नशेरणोपदेश इतिअस्माक मतऽयमरणोपदेश इत्यथः, कलापके तुणोपदेशः ॥ २. ३.७८ ।।