SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पा० ३. सू० ६८. ] ग्रामोऽपि शिरीषास्तेषां वनं शिरीषवनम् । अनिरिकादिभ्य इति किम् ? इरिकावनम्, मिरिकावनम्, तिमिरवनम्, चीरिकावनम्, कर्मारवनम्, क्षीरवनम् ; हरिवनम् । इरिकादिराकृतिगरणः । इरिकादिविशेषवर्जनाद् विशेषाणामेवेह विधि:, तेनेह न भवति - द्र मवनम्, वृक्षवनम् ।। ६७ ।। ३३४ ] न्या० स०-- द्वित्रिस्वरौ० । कोद्रवरणमिति - केन - अम्भसा उद्यन्ते "कैरव ०" 5 [ उणा० ५१६. ] इति साधुः, केनो दुत्रन्त्युच्छब्दायन्तेऽचि वा । श्रोषध्यः फलपाकान्ता इति - उष्यतेऽनेनेति "व्यञ्जना घञ्” [ ५. ३. १३२. ] इति घत्रि - प्रोष:, प्रोषो धीयतेऽस्यामिति - प्रोषधि: ' व्याप्यादाधारे” [ ५. ३.८८ ] इति कौ " इतोऽक्त्यर्थात् [ २.४ ३२. ] इति ङयाम्-प्रोषध्यः, "उषेरधिः" [ उणा० ६७५. ] इति वा । फलस्य पाकेनान्तो विनाशः शोषो यासां ताः फलपाकान्ताः । लताः प्रतानवत्यो मालत्यादय:, 10 लता वल्ली कर्कोट्यादिका । गुल्माः ह्रस्वस्कन्धास्तरवो बहुकाण्डपत्राः केतक्यादयः । एतल्लतागुल्मरूपं द्वयं वीरुधः ; उत्पलस्त्वेवं व्याचष्टे - लता गुल्मास्तेभ्यो विलक्षणा वीरुधः । पुष्पं विना फलमेव यस्य स प्लक्षादिः फली । पुष्पं च फलं च उपगच्छन्ति - पुष्पफलोपगाः नाम्नो गमः ०' [ ५. १. १३१. ] इति डे वृक्षाः पुष्पपलोपगा इति । न चोभयमेव उपगच्छन्ति त एव वृक्षाः किं तर्हि ? येऽप्यन्यतरत् पुष्पं फलं वा उपगच्छन्ति 15 तेऽपि वृक्षा एव तत्र वेतसादयः पुष्पमेव, प्लक्षादयः फलमेव, आम्रादयस्तूभयमप्युपगच्छन्ति, तत्र वृक्षो वनस्पतित्वमवकोशित्वं च न व्यभिचरति । वनस्पतिरवकेशी तु वृक्षत्वं व्यभिचरतः, यतः फली वनस्पतिर्ज्ञेयः फलवन्ध्यस्त्ववकेशीति, अत एव च वनस्प त्यादिग्रहणमकृत्वा वृक्षग्रहरणं कृतं तदन्तर्गतत्वाद् वनस्पतित्यादेरिति । विदारी लताविशेषः ।। २. ३. ६७ ।। "" 20 गिरिनद्यादीनाम् ॥ २. ३. ६८ ॥ गिरिनदीत्यादीनां नकारस्य वा गो भवति । गिरिगदी, गिरिनदी; गिरिणखः, गिरिनखः; गिरिरणद्ध:, गिरिनद्धः; गिरिरिणतम्बः, गिरिनितम्बः ; वक्ररणदी, वक्रनदी; वक्ररिणतम्बा, वक्रनितम्बा; चक्ररिणतम्बा, चक्रनितम्बा; माषोण:, माषोनः; तूर्यमाणः, तूर्यमानः; श्रार्गयणः, प्रागयन: ; - ऋगयनं 25 वेत्त्यधीते वेत्यण, ऋगयनस्य व्याख्यानं तत्र भवो वा शिक्षादित्वादण । बहुवचनाद् यथादर्शनमन्येऽपि भवन्ति ॥ ६८ ॥ न्या० स० - गिरि न० । तूर्यमारण इति तुर्यं मानमस्येति वाक्ये निमित्त - निमित्तिनोरेकपदस्थत्वाभावादप्राप्ते विकल्पः, तूर्यतेस्त्वानशि श्ये मागमे च " रषृवर्णा ० "
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy