SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३२८ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० ३. सू० ५७-५८.] 10 सूत्योर्धात्वोरेवेच्छन्ति, तन्मते-निःषमति, दुःषमति, निःषूतं, दुःषूतमित्यादावेव भवति ।। ५६ ।। न्या० स०-नि-ई-सः-वेः०। समेति सह मया वर्तते इति समः "गोशान्ते." [२. ४. ६६.] । निर्गतो निश्चितो वा समात्, सम इति समतीति प्रयोगैकदेशः, “षम ष्टम" इत्यजन्तस्य च भवति । सूतीत्यादादिकस्य "इ-कि-श्ति" [५. ३. १३८.] 5 इति श्तिव्यपि भवति, सूति-सूयति-सुवतीनां क्त्यन्तानां च। तत्र "अवः स्वप०" [२. ३. ५७.] इत्यनेन पृथग् योगान्नाम्नोरेव ग्रहणं न धात्वोरित्याह-नाम्नोर्ग्रहणादितिनामग्रहणे च लिङ्गविशिष्टस्यापि, तेन सुषमा इत्यादिधात्वोरेवेच्छन्तीत्युक्त्वा कथं निःपूतमित्याद्युदाहृतम् ? सत्यम्-क्तप्रत्ययात् प्रागेव सूतेरुपसर्गेण योगाद् भविष्यति । ।। २. ३. ५६ ।। अव स्वपः ।। २. ३. ५७ ॥ नि-१ः-सु-विपूर्वस्य वकाररहितस्य स्वपेर्धातोः सकारस्य षो भवति । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः; निष्षुप्तः, दुःषुप्तः; सुषुप्तः; विषुप्तः । अव इति किम् ? निःस्वप्नः, दुःस्वप्नः, सुस्वप्नः, विस्वप्नः; विसुष्वाप ।। ५७ ।। न्या० स०--प्रवः स्वपः निःषुप्त इत्यादौ "ज्ञानेच्छा०" [५. २. ६२.] इति क्तः ।। २. ३. ५७ ॥ प्रादुरुपसर्गाद य-स्वरेऽस्तेः ॥ २. ३. ५८ ॥ प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात् परस्यास्तेः सकारस्य यकारादौ स्वरादौ च प्रत्यये परे षो भवति । प्रादुःष्यात्, निष्यात्,20 विष्यात्, अभिष्यात् ; प्रादुःषन्ति, निषन्ति विषन्ति, अभिषन्ति; शिड्नान्तरेऽपि-निःष्यात्, निःषन्ति । प्रादुरुपसर्गादिति किम् ? दधि स्यात्, मधूनि सन्ति, यदत्र मां प्रति स्यात् तद् दीयताम्, सर्पिषोऽपि स्यात् । य-स्वर इति किम् ? प्रादुःस्तः, निस्तः, अनुस्तः, अनुस्वः, अनुस्मः । अस्तेरिति किम् ? विसृतम्, अनुसृतम्, अनुसूतेः क्विपि अनुसूस्तस्यापत्यं शुभ्रादित्वादेयण 25 ऊलोपः-प्रानुसेयः । प्रादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ।। ५८ ।। 15
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy