SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ [ पा० ३. सू० ४-५. ] न्या० स०-- पुंसः । ननु “पुमोऽशिटयघोषे० " [ १. ३. ९. ] इत्यत्र रमपहाय सत्वमेव विधीयतां किमनेनेति ? सत्यम् एतद् विना 'पुश्चरः, पुष्टिट्टिभ:' इत्यादयो न सिद्धयन्तीति आरभ्यते; न च वाच्यं “ सो रु: " [ २.१.७२. ] इति रुत्वे तस्य शत्वषत्वादौ च कृते सर्वाणि सेत्स्यन्ति ? विधानसामर्थ्येन रुत्वाभावात् । पुंस्काम्यति त्र “रोः काम्ये” [ २. ३. ७ ] इति नियमात् “नामिनस्तयोः षः " [ २.३.८. ] इति षत्वं 5 न, 'पु ंस्कः, पुस्पाशः' इत्यत्र तु कृतमपि षत्वं परस्मिन् “पु ंसः " [ २. ३. ३. ] इति सत्वे कर्तव्ये "षमसत् ० [ २.१.६० ] इत्यनेनासिद्ध, ततः सप्तमपादे सत्वापेक्षया परमपि षत्वं " गषम् ०" [२. १६०. ] इत्यत्र ज्ञातव्यम्, अतः षत्वमर्वाचीनं सत्वं तु परविधिरिति ।। २. ३. ३. ।। 33 ३०२ ] बृह वृत्तिल धुन्याससंवलिते शिरो-sधसः पदे समासैक्ये ।। २. ३.४ ।। 'शिरस् प्रधस्' इत्येतयोः संबन्धिनो रेफस्य पदशब्दे परे सो भवति, समासक्तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । शिरस्पदम्, अधस्पदम् ; "अव्ययं प्रवृद्धादिभिः " [ ३. १. ४८. ] इति समासः । पद इति किम् ? शिरःखण्डम् । समासेति किम् ? शिरःपदम् अधः पदम् । ऐक्य इति किम् ? परमशिरः पदम्, परमाधः पदम् ।। ४ ।। 10 15 न्या० स० -- शिरोऽधसः० । पदशब्दे पर इति न वाच्यं स्वं रूपं शब्दस्य इत्यनेन कृत्रिमाकृत्रिमयोः ० इत्यनेन या " तदन्तं पदम् " [ ११.२० ] इत्यादि सूत्र: परिभाषितस्य ग्रहणं प्राप्नोतीति, समास इति वचनादुत्तरपदमन्तरेण च समासस्यासम्भवात् तस्य सामर्थ्य लब्धत्वात् पदग्रहणानर्थक्यप्रसङ्गादिति । शिरस्पदम् अत्र "सप्तमी शौण्डाद्यै:" [ ३. १.८८ ] इति सः, षष्ठीतत्पुरुषो वा । अधः पदम् इत्यत्र 20 "अव्ययं प्रवृद्धादिभिः” [ ३.१.४८ ] इंति नित्यं से प्राप्ते बाहुलकाद् वाक्यमपि । “ऋते तृतीयासमासे” [१. २. ८. ] इतिवत् समास इत्युक्तेऽपि तो शाब्द्या वृत्या निर्दिश्ये इति न कोऽपि दोषः ।। २. ३.४ ।। अतः कृ-कमि कंस- कुम्भ· कुशा- कर्णीपाग्रेऽनव्ययस्य ।। २. ३. ५ 1125 अकारात् परस्यानव्ययसंबन्धिनो रेफस्य कृ कम्यादिस्थेषु क-ख-प-फेषु परेषु सो भवति, तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । कृ - अयस्कृत्, अयस्कृतम्; कमि - यशस्कामः, पयस्कामः; कंस - अयस्कंसः, अयस्कारः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy