SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १२४.] नान्तेन बह वभिधानमनुपपन्नम्, तथा हरीतक्यः फलानीति स्त्रीनपुसकयोलिङ्गयोरयोगः, तथा पञ्चालमथुरे इत्यनुत्तरपदस्य देशवृत्तेर्बहुविषयस्य बहुवदभावप्रति धानुपपत्तिः, एवं चञ्चाभिरूप इत्यादावपि चञ्चादिलिङ्गता स्यादित्यत्र यत्नः कर्त्तव्यः, येन सर्वं समञ्जसं स्यादित्याशङ्कायामाह- सर्वलिङ्गसंख्ये वस्तुनीत्यादिसर्वाणि- त्रीण्यपि लिङ्गानि, सर्वाश्चएकत्व-द्वित्व-बहत्वलक्षगगा: संख्या एकस्मिन्न व वस्तूनि सन्ति, तथाहि-वस्त्वर्थो मात्रेति 5 शब्दाः सर्वत्र वस्तुतत्त्वे- घटवस्तु घटार्थो घटमात्रेति प्रवर्तन्ते इति लिङ्गानि दृश्यन्ते ; गुणगुरिण-द्रव्यपर्याया-ऽवयवावयविरूपे वस्तुनि घट इत्यभेदविवक्षायामेकत्वसंख्या, गुणगुरिणनौ द्रव्य-पर्यायौ अवयवा-ऽवयविनौ घटौ नैककमात्र इति द्वित्वसंख्या, गुण-पर्यायाऽवयवानां बहुत्वात् तद्भदविवक्षायां गुणाश्च गुणी च गुणगुणिनो घटा इति बहुत्वसंख्या; न चैतदेकस्मिन् वस्तूनि स्याद्वादानुपातिनि विरुद्ध स्यात्, यत: कथञ्चिदिति वाद: स्याद्वाद:10 तथाहि-स एवायं मैत्र इत्याजन्ममरणमविच्छेद: प्रतीयते, तन्न भेदमात्रं वस्तु, बालोऽयं न यूवा, यूवाऽयं न बालः, सूप्ताऽयं न उत्थितः, उत्थितोऽयं न सप्त इति विच्छेदश्च प्रतीयते तन्नाभेदमात्रम्, न च तयोर्भेद एव 'मैत्रो बालो मैत्रो युवा' इत्येकत्वेन प्रतिभासनात्, गौरश्चेतिवद् भेदप्रतिभासाभावात्, एकान्तेन भेदेऽन्यतरविलोपः, तथा च भेदाभेदप्रतिभासायोगः, न चान्यतरस्य मिथ्यात्वमितराविशेषात, तस्मादन्तरालावस्थं वस्तु, तदेतत्15 स्याद्वादानुपातीति नावानेकरूपता विरुध्यते, तदेवं क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते, तत्राप इति नैकस्यां व्यक्तौ प्रवर्तते, अपि तु बहुव्यक्तिविषय एव। एवं दारादयोऽपि पुल्लिङ्गाः, यथा द्वौ त्रय इति भेदविषया एव नैकैक विषया एव, एकद्रव्यविषयत्वेऽपि गुणपर्यायावयवभेदोप'दानाद् वस्तुसामर्थ्याद् बहुत्वोपपत्तिः । एवं पञ्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवतते, जनपद इति समुदायद्वारेण ।20 - एवं गोदौ ग्राम इत्यादावप्येकानेकसंख्योपपत्तिः। हरीतक्यः फलानीति लिङ्गभेदश्च सर्वलिङ्गत्वाद् वस्तुनः । पञ्चालमथुरे इति पञ्चालादोनां बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समूदायाभिधानं न त्ववयवाभिधानमिति बहत्वाभावः, नियतविषयाश्च शब्दशक्तयो भवन्ति, यथा-राज्ञः पूरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे, वृत्तौ तु तद्विलक्षणं राजपुरुष इति । चञ्चाभिरूयो मनुष्य इति सा श्यान्मनुष्यवृत्तेश्च तद्रूपं25 यन्न विशेषणयोगि । पञ्चालादिशब्दानां च क्षत्रियाद्यर्थवृत्तीनामपि सोऽयमित्यभिसम्बन्धादुपचारराज्जनपदाद्यर्थेऽपि वृत्तिरित्युक्त -मुख्योपचरितार्थानुपातिनीत्यादि। अत्र च रूढिः प्रमाणं. यतो वद्धव्यवहाराच्छब्दार्थव्यत्पत्तिरित्युच्यते-रूढित इति-रूढिः शिष्टव्यवहारे प्रसिद्धिः । तत्तल्लिङ्गसंख्योपादानव्यवस्थेति-सा सा येदानी प्रदर्शितेति ।। २. २. १२४ ।। ॥ द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ .. 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy