________________
[पा० २. सू० १२४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६६
त्वं गुरुः, यूयं गुरवः; युवां गुरू, यूयं गुरवः; स कारुणिक उपाध्यायः, ते कारुणिका उपाध्यायाः; तौ कारुरिणकावुपाध्यायौ, ते कारुणिका उपाध्यायाः; एष मे पिता, एते मे पितरः; अयं तपस्वी, इमे तपस्विनः; गुरुशिष्यौ, गुरुशिष्याः; इह भवानाह, इह भवन्तस्त्वाहुः । प्रापः, दाराः, गृहाः, वर्षाः, पञ्चाला: जनपदः, गोदौ ग्रामः, खलतिकं वनानि, हरीतक्यः फलानि, 5 पञ्चालमथुरे, चञ्चाऽभिरूपो मनुष्य इति । सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थाऽनुपातिनि च शब्दाऽऽत्मनि रूढितस्तत्तल्लिङ्गसंख्योपादानव्यवस्थाऽनुसतव्या ।। १२४ ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याऽध्यायस्य द्वितीयः पादः समाप्तः ।। २ । २ ।। 10
मूलार्कः श्रूयते शास्त्रे, सर्वकल्याणकारणम् ।
अधुना मूलराजस्तु, चित्रं लोकेषु गीयते ।। ६ ।। न्या० स०--गुरा० । कारुणिक इति-करुणा प्रयोजनमस्य करुणया वा चरति । अयं भवान् इहभवान् “भवत्वायु:०" [७. २. ६१.] इत्यधिकारात् “त्रप् च" [७.. २. ६२.] इति त्रप्, "क्वकुत्र०" [७. २. ६३.] इति पश्चान्निपात्यते । इमे भवन्त:15 इहभवन्तः। पञ्चालानां देशोऽपि पञ्चाला उपचारात्। गोदौ-ह्रदौ तत्समीपग्रामोऽपि गोदौ। खलतिकं वनानीति-खलतीति "कुशिक०" [ उणा० ४५. ] इत्यादिना निपात्यत
इत्याम्नायः, यद्वा खलान् तिक्नोति “मूलविभुजादयः" [५. १. ११४. ] कः, खलति. काख्यपर्वतसमीपवर्तिवनानामपि खलतिक इत्याख्या। हरति रोगानिति "हरुहि०" [उणा० ७६.] इति ईतके-हरीतकी। पञ्चालाश्च मथुरा च पञ्चालमथुरे। चीयते20 उपचोयते तृणैरिति चञ्चा। "चमेोंचडञ्चौ" [ उणा० १२२. ] अभिमतं रूपं यस्य अभिमतं रूप्यते वा अभिरूपो मनुष्यश्चञ्च व अकिञ्चित्करत्वात् अनुपततीति-अनुयाति अनुव्रजतीत्यर्थः । अनुसतव्येति-लिङ्गानि च संख्याश्च तास्ताश्च ताः लिङ्गसंख्याश्च तासामुपादानं तस्य व्यवस्था साऽनुसर्तव्या। नन्वाप इत्येकस्यात्मापि जलकणिकायां बहुवचनान्तोऽप्शब्द : प्रयुज्यते, दारशब्दश्चैकस्यामपि योषिति पुल्लिङ्गो बहुवचनान्तः,25 एवं गृह-शब्दोऽप्येकस्मिन्नपि गृहे, एवं वर्षा इत्येकस्मिन्नपि ऋतौ, एवं पञ्चाला इति बहुवचनान्तेनैकोऽर्थ उच्यते जनपदः, तत्र बहुत्वाभावाद् बहुवचनाऽयोगः, यद्यसौ बहुत्वसंख्यायोगी स्यात् तदैकवचनानुपपत्तिः जनपद इति एकत्वाभावात्, नह्य कोऽर्थ एको भवति अनेकश्च, विरोधात्, कथञ्चित् तथाभावे तुभयमप्युभयसंख्यायोगि स्यात्, न चैतदिष्यत इति, एवं गोदौ ग्राम इति द्वित्वैकत्वनियमाऽयोगः, खलतिकं वनानीत्येकवच-3